2023-09-03 13:57:25 by Lakshmainarayana achar

This page has been fully proofread twice.

सान्त्वयित्वा तत्प्रभावदर्शिते महति मन्दिरेऽहर्निशं [^१]भूमिदुर्लभान्भोगानन्वभूवम् । द्वित्राणि दिनान्यतिक्रम्य मत्तकाशिनीं तामवादिषम् – 'प्रिये, प्रत्यपकृत्य मत्प्राणद्रोहिणश्च- ण्डसिंहस्य वैरनिर्यातनसुखमनुबुभूषामि' इति । तया सस्मितमभिहितम् – 'एहि कान्त, कान्तिमतीदर्शनाय नयामि त्वाम्' इति । स्थितेऽर्धरात्रे राज्ञो वासगृहमनीये । ततस्तच्छिरोभागवर्तिनी मादायासियष्टिं प्रबोध्येनं प्रस्फुरन्तमब्रवम् – 'अहमस्मि भवज्जामाता । भवदनुमत्या विना तव कन्यामिमर्शी । तमपराधमनुवृत्त्या प्रमार्ष्टुमागतः' इति । सोऽतिभीतो मामभिप्रणम्याह - 'अहमेव मूढोऽपराद्धः, यस्तव दुहितृसंसर्गानु- ग्राहिणो ग्रहग्रस्त इवोत्क्रान्तसीमा समादिष्टवान्वधम् । तदास्तां कान्तिमती राज्यमिदं मम च जीवितमप्यद्यप्रभृति भवदधीनम्' इत्यवादीत् । अथापरेद्यु: प्रकृतिमण्डलं संनिपात्य विधिवदात्मजायाः पाणिमग्राहयत् । अश्रावयच्च तनयवार्तां तारावली कान्तिमत्यै, सोमदेवीसुलोचनेन्द्रसेनाभ्यश्च
पूर्वजातिवृत्तान्तम् । इत्थमहं मन्त्रिपदापदेशं यौवराज्यमनुभवन्वि-
रामि विलासिनीभिः' इति ।
 
पदचन्द्रिका ।
 
तत्प्रभावदर्शिते तारावलीसामर्थ्यप्रकटीकृते । अहर्निशं दिवारात्रम् । मत्तकाशिनीमुत्तमाम् । अवादिषमवोचम् । प्रत्यपकृत्य । प्रत्यपकारं कृत्वेत्यर्थः । वैरनिर्यातनं वैरशुद्धिम् । 'निर्यातनं वैरशुद्धौ' इत्यमरः । अनुबुभूषाम्यनुभवितुमिच्छामि । तया
तारावल्या । वासगृहं गर्भागारम् । अनीये । नीत इत्यर्थः । तत इति । असियष्टिं खड्गयष्टिम् । एनं चण्डसिंहम् प्रस्फुरन्तं कम्पन्तम् । जामाता दुहितुः पतिः । भवदनुमत्या विना त्वत्संमतिं विना । 'पृथग्विना -' इति पक्षे तृतीया । अनुवृत्त्या सेवया । प्रमार्ष्टुं दूरीकर्तुम् । स चण्डसिंह: । अपराद्धः कृतापराधः । तवार्थपालस्य । दुहितृसंसर्गानुप्राहिणः कन्यासंसर्गकृपाकर्तुः । उत्क्रान्तसीमोज्झितमर्यादः । कान्तिमती कन्या । भवदधीनं त्वदधीनम् । अथेति । प्रकृतिमण्डलं प्रजासमूहम् । संनिपात्य । एकीकृत्येत्यर्थः । विधिवद्विध्युक्तप्रकारेण । आत्मजायाः
कन्यायाः । अग्राहयत् । ग्राहयति स्मेत्यर्थः । इत्थममुना प्रकारेण । मन्त्रिपदस्यापदेशो मिषम् । विहरामि क्रीडां करोमि ॥
 
[^१]G. 'इन्द्रदुर्लभान्'.