2023-07-04 15:30:09 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१७६
 
दशकुमारचरितम् ।
 
[ चतुर्थ:
 
सान्त्वयित्वा तत्प्रभाव दर्शिते महति मन्दिरेऽहर्निशं [^१]भूमिदुर्लभा-
न्भोगानन्वभूवम् । द्वित्राणि दिनान्यतिक्रम्य मत्तकाशिनीं तामवा-
दिषम् – 'प्रिये, प्रत्यपकृत्य मत्प्राणद्रोहिणञ्श्- ण्डसिंहस्य वैरनि-
र्यातनसुखमनुबुभूषामि' इति । तया सस्मितमभिहितम् – 'एहि
कान्त, कान्तिमतीदर्शनाय नयामि त्वाम्' इति । स्थितेऽर्धरात्रे
राज्ञो वासगृहमनीये । ततस्तच्छिरोभागवर्तिनी मादायासियष्टिं
प्रबोध्येनं प्रस्फुरन्तमब्रवम् – 'अहमस्मि भवज्जामाता । भवदु-
नुमत्या विना तव कन्यामिमर्शी । तमपराधमनुवृत्त्या प्रमार्छु -
ष्टुमागतः' इति । सोऽतिमीभीतो मामभिप्रणम्याह - 'अहमेव मूढो-
पराद्धः, यस्तव दुहितृसंसर्गानु- ग्राहिणो ग्रहग्रस्त इवोत्क्रान्तसीमा
समादिष्टवान्वधम् । तदास्तां कान्तिमती राज्यमिदं मम च
जीवितमप्यद्यप्रभृति भवदधीनम्' इत्यवादीत् । अथापरेछुःद्यु: प्रकृ-
तिमण्डलं संनिपात्य विधिवदात्मजायाः पाणिमग्राहयत् । अश्रावयच्
तनयवार्तातां तारावली कान्तिमत्यै, सोमदेवीसुलोचनेन्द्रसेनाभ्यश्च

पूर्वजातिवृत्तान्तम् । इत्थमहं मन्त्रिपदापदेशं यौवराज्यमनुभवन्वि-

रामि विलासिनीभिः' इति ।
 

 
पदचन्द्रिका ।
 

 
तत्प्रभावदर्शिते तारावलीसामर्थ्यप्रकटीकृते । अहर्निशं दिवारात्रम् । मत्तकाशि-
नीमुत्तमाम् । अवादिषमवोचम् । प्रत्यपकृत्य । प्रत्यपकारं कृत्वेत्यर्थः । वैरनिर्यातनं
बै
वैरशुद्धिम् । 'निर्यातनं वैरशुद्धौ' इत्यमरः । अनुबुभूषाम्यनुभवितुमिच्छामि । तया

तारावल्या । वासगृहं गर्भागारम् । अनीये । नीत इत्यर्थः । तत इति । असियष्टिं
सा
खड्गयष्टिम् । एनं चण्डसिंहम् प्रस्फुरन्तं कम्पन्तम् । जामाता दुहितुः
'प्र
तिः । भवदनुमत्या विना त्वत्संमतिं विना । 'पृथग्विना -' इति पक्षे तृतीया ।
अनुवृत्त्या सेवया । प्रमार्ष्टुं दूरीकर्तुम् । स चण्डसिंह: । अपराद्धः कृतापराधः ।
तवार्थपालस्य । दुहितृसंसर्गानुप्राहिणः कन्यासंसर्गकृपाकर्तुः । उत्क्रान्तसीमोज्झि
'
तमर्यादः । कान्तिमती कन्या । भवदधीनं त्वदधीनम् । अथेति । प्रकृतिमण्डलं
प्रजासमूहम् । संनिपात्य । एकीकृत्येत्यर्थः । विधिवद्विध्युक्तप्रकारेण । आत्मजायाः

कन्यायाः । अग्राहयत् । ग्राहयति स्मेत्यर्थः । इत्थममुना प्रकारेण । मन्त्रिप
स्यापदेशो मिषम् । विहरामि क्रीडां करोमि ॥
 
पाठा०-

 
[^
]G. 'इन्द्रदुर्लभानून्'.