This page has not been fully proofread.

१७६
 
दशकुमारचरितम् ।
 
[ चतुर्थ:
 
सान्त्वयित्वा तत्प्रभाव दर्शिते महति मन्दिरेऽहर्निशं भूमिदुर्लभा-
न्भोगानन्वभूवम् । द्वित्राणि दिनान्यतिक्रम्य मत्तकाशिनीं तामवा-
दिषम् – 'प्रिये, प्रत्यपकृत्य मत्प्राणद्रोहिणञ्चण्डसिंहस्य वैरनि-
र्यातनसुखमनुबुभूषामि' इति । तया सस्मितमभिहितम् – 'एहि
कान्त, कान्तिमतीदर्शनाय नयामि त्वाम् इति । स्थितेऽर्धरात्रे
राज्ञो वासगृहमनीये । ततस्तच्छिरोभागवर्तिनी मादायासियष्टिं
प्रबोध्येनं प्रस्फुरन्तमब्रवम् – 'अहमस्मि भवज्जामाता । भवदु-
नुमत्या विना तव कन्यामिमर्शी । तमपराधमनुवृत्त्या प्रमार्छु -
मागतः' इति । सोऽतिमीतो मामभिप्रणम्याह - 'अहमेव मूढो-
उपराद्धः, यस्तव दुहितृसंसर्गानुग्राहिणो ग्रहग्रस्त इवोत्क्रान्तसीमा
समादिष्टवान्वधम् । तदास्तां कान्तिमती राज्यमिदं मम च
जीवितमप्यद्यप्रभृति भवदधीनम्' इत्यवादीत् । अथापरेछुः प्रकृ-
तिमण्डलं संनिपात्य विधिवदात्मजायाः पाणिमग्राहयत् । अश्रावयच
तनयवार्ता तारावली कान्तिमत्यै, सोमदेवीसुलोचनेन्द्रसेनाभ्यश्च
पूर्वजातिवृत्तान्तम् । इत्थमहं मन्त्रिपदापदेशं यौवराज्यमनुभवन्वि-
रामि विलासिनीभिः' इति ।
 
पदचन्द्रिका ।
 
तत्प्रभावदर्शिते तारावलीसामर्थ्यप्रकटीकृते । अहर्निशं दिवारात्रम् । मत्तकाशि-
नीमुत्तमाम् । अवादिषमवोचम् । प्रत्यपकृत्य । प्रत्यपकारं कृत्वेत्यर्थः । वैरनिर्यातनं
बैरशुद्धिम् । 'निर्यातनं वैरशुद्धौ' इत्यमरः । अनुबुभूषाम्यनुभवितुमिच्छामि । तया
तारावल्या । वासगृहं गर्भागारम् । अनीये । नीत इत्यर्थः । तत इति । असियष्टिं
सायष्टिम् । एनं चण्डसिंहम् प्रस्फुरन्तं कम्पन्तम् । जामाता दुहितुः
'प्रतिः । भवदनुमत्या विना त्वत्संमतिं विना । 'पृथग्विना -' इति पक्षे तृतीया ।
अनुवृत्त्या सेवया । प्रमा दूरीकर्तुम् । स चण्डसिंह: । अपराद्धः कृतापराधः ।
तवार्थपालस्य । दुहितृसंसर्गानुप्राहिणः कन्यासंसर्गकृपाकर्तुः । उत्क्रान्तसीमोज्झि
'तमर्यादः । कान्तिमती कन्या । भवदधीनं त्वदधीनम् । अथेति । प्रकृतिमण्डलं
प्रजासमूहम् । संनिपात्य । एकीकृत्येत्यर्थः । विधिवद्विध्युतप्रकारेण । आत्मजायाः
कन्यायाः । अग्राहयत् । ग्राहयति स्मेत्यर्थः । इत्थममुना प्रकारेण । मन्त्रिप
स्यापदेशो मिषम् । विहरामि क्रीडां करोमि ॥
 
पाठा०-१ 'इन्द्रदुर्लभानू'.