2023-09-03 13:57:31 by Lakshmainarayana achar

This page has been fully proofread twice.

ऽस्मिन्कीदृशस्ते भावः ?" इति । 'औरस इवास्मिन्वत्से वत्सलता'
इति मया विज्ञापितः 'सत्यमाह वराकी' इति तन्मूलामतिमहतीं
कथामकरोत् । तत्रैतावन्मयावगतम् 'त्वं किल शौनकः शूद्रकः कामपालश्चाभिन्नः । बन्धुमती विनयवती कान्तिमती चाभिन्ना । वेदिमत्या [^१]र्यदासी सोमदेवी चैकैव । [^२]हंसावली [^३]शूरसेना सुलोचना चानन्या । नन्दिनी रङ्गपताकेन्द्रसेना चापृथग्भूता । या किल शौनकावस्थायामग्निसाक्षिकमात्मसात्कृता गोपकन्या सैव किलार्यदासी पुनश्चाद्य तारावलीत्यभूवम् । बालश्च किल शूद्रकावस्थे त्वय्यार्यदास्यवस्थायां मय्युदभूत् । अवर्ष्यत च विनयवत्या स्नेहवासनया । स तु तस्यां कान्तिमत्यवस्थाया- मद्योदभूत् । एवमनेकमृत्युमुखपरिभ्रष्टं दैवान्मयोपलब्धं तमेकपिङ्गादेशाद्वने तपस्यतो राजहंसस्य देव्यं वसुमत्यै तत्सुतस्य भाविचक्रवर्तिनो राजवाहनस्य परिचर्यार्थं समर्प्य गुरुभिरभ्यनुज्ञाता कृतान्तयोगात्कृतान्तमुख [^४]भ्रष्टस्य ते पादपद्मशुश्रूषार्थ- मागतास्मि' इति ।
तच्छ्रुत्वा तामनेकजन्मरमणीमसकृदाश्लिष्य हर्षाश्रुमुखो मुहुर्मुहुः
 
पदचन्द्रिका ।
 
बालेऽस्मिन्निति । अस्मिन्बालक इत्यर्थः । भावश्चित्ताभिप्रायः कीदृशः । कथमित्यर्थः । औरस उरसि भवस्तथा । पुत्र इति यावत् । अस्मिन्वत्सेऽस्मिन्बाले । वत्सलता स्नेहलता । वराकी कृपार्हा । तन्मूलां बालकमूलाम् । तत्रेति । अवगतं ज्ञातम् । त्वमर्थपालः । चतुर्ष्वपि जन्मसु नाम्नैव भिन्नः न तु स्वरूपेणेति । शौनकावस्थायां बन्धुमती वेदिमती हंसावली नन्दिन्यश्चतस्रः । शूद्रकावस्थायां
विनयवत्यार्यदासी शूरसेना रङ्गपताका । कामपालावस्थायां कान्तिमती सोमदेवी सुलोचनेन्द्रसेना । एतास्तिस्रोऽभिन्नाः । एकरूपा इत्यर्थः । वेदमतीप्रभृतयस्तिस्रोऽप्यभिन्नाः । हंसावलीप्रमृतयश्चतस्रोऽप्यभिन्नाः । नन्दिनीमुखाश्चेति तिस्रो-
ऽभिन्नाः । शौनकावस्थायाम् । आत्मसात्कृता । परिणीतेत्यर्थः । बालः शिशुः । विनयवत्येति कर्तरि तृतीया । तस्यां विनयवत्याम् । कान्तिमत्यवस्थायाम् । दैवाददृष्टात् । एकपिङ्गदेशात्कुबेरादेशात् । कृतान्तयोगात् दैवयोगात् । 'कृतान्तो यमसिद्धान्तदैवा- कुशलकर्मसु' इति विश्वः । कृतान्तमुखभ्रष्टस्य यममुखनिर्गतस्य ।
 
[^१]G. 'अर्यदासी'. 'यक्षदासी', 'यज्ञदासी'.
[^२]G. 'हंसावती'
[^३]G. 'सुरसेना'.
[^४]G. 'परिभ्रष्टस्य'.