2023-05-18 02:10:37 by ambuda-bot
This page has not been fully proofread.
उच्वास: ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
१७५
ऽस्मिन्कीहशस्ते भावः ?" इति । 'औरस इवास्मिन्वत्से वत्सलता
इति मया विज्ञापितः 'सत्यमाह वराकी' इति तन्मूलामतिमहत
कथामकरोत् । तत्रैतावन्मयावगतम् 'त्वं किल शौनकः शूद्रकः काम-
पालवाभिन्नः । बन्धुमती विनयवती कान्तिमती चाभिन्ना । वेदिम-
त्यांर्यदासी सोमदेवी चैकैव । हंसावेली शूरसेना सुलोचना
चानन्या । नन्दिनी रङ्गपताकेन्द्रसेना चापृथग्भूता । या किल शौन-
कावस्थायामग्निसाक्षिकमात्मसात्कृता गोपकन्या सैव किलार्यदासी
पुनश्चाद्य तारावलीत्यभूवम् । बालञ्च किल शूद्रकावस्थे त्वय्यार्य-
दास्यवस्थायां मय्युदभूत् । अवर्ष्यत च विनयवत्या स्नेहवास-
नया । स तु तस्यां कान्तिमत्यवस्थायामद्योदभूत् । एवमनेकम्-
त्युमुखपरिभ्रष्टं दैवान्मयोपलब्धं तमेकपिङ्गादेशाद्वने तपस्यतो
राजहंसस्य देव्यं वसुमत्यै तत्सुतस्य भाविचक्रवर्तिनो राजवा-
हनस्य परिचर्यार्थ समर्प्य गुरुभिरभ्यनुज्ञाता कृतान्तयोगात्कृता-
न्तमुखर्भ्रष्टस्य ते पादपद्मशुश्रूषार्थमागतास्मि' इति ।
तच्छ्रुत्वा तामनेकजन्मरमणीमसकृदाश्लिष्य हर्षांश्रुमुखो मुहुर्मुहुः
पदचन्द्रिका ।
बालेऽस्मिन्निति । अस्मिन्बालक इत्यर्थः । भावश्चित्ताभिप्रायः कीदृशः । कथ-
मित्यर्थः । औरस उरसि भवस्तथा । पुत्र इति यावत् । अस्मिन्वत्सेऽस्मिन्बाले ।
वत्सलता स्नेहलता । वराकी कृपार्हा । तन्मूलां बालकमूलाम् । तत्रेति । अवं-
गतं ज्ञातम् । त्वमर्थपालः । चतुर्ष्वपि जन्मसु नानैव भिन्नः न तु स्वरूपेणेति
शौनकावस्थायां बन्धुमती वेदिमती हंसावली नन्दिन्यश्चतस्रः । शुद्धकावस्थायां
विनयवत्यार्यदासी शूरसेना रङ्गपताका । कामपालावस्थायां कान्तिमती सोमदेवी
सुलोचनेन्द्रसेना । एतास्तिस्रोऽभिन्नाः । एकरूपा इत्यर्थः । वेदमतीप्रभृतयस्ति
स्रोऽप्यभिन्नाः । हंसावलीप्रमृतयश्चतस्रोऽप्यभिन्नाः । नन्दिनीमुखाश्चेति तिस्रो-
ऽभिन्नाः । शौनकावस्थायाम् । आत्मसात्कृता । परिणीतेत्यर्थः । बालः' शिशुः ।
विनयवत्येति कर्तरि तृतीया । तस्यां विनयवत्याम् । कान्तिमत्यवस्थायाम् । देवा -
ददृष्टात् । एकपिदेशात्कुबेरादेशात् । कृतान्तयोगात् दैवयोगात् । 'कृतान्तो यम
सिद्धान्तदैवाकुशलकर्मसु' इति विश्वः । कृतान्तमुखभ्रष्टस्य यममुखमिर्गतस्य ।
पाठा० - १ 'अर्यदासी'. 'यक्षदासी', 'यज्ञदासी'. २ 'हंसावती'
३ 'सुरसेना'. ४ 'परिभ्रष्टस्य'.