2023-09-03 13:57:38 by Lakshmainarayana achar

This page has been fully proofread twice.

न्त्यजं तमन्यांश्च कांश्चित्प्रहृत्यापासरम् । अशरणश्च भ्रमन्नटव्या-
मेकदाश्रुमुख्या कयापि दिव्याकारया [^१]सपरिचारया कन्ययोपास्थायिषि । सा मामञ्जलिकिसलयोत्तंसितेन मुखविलोलकुन्तलेन मूर्ध्ना प्रणम्य मया सह वनवटद्रुमस्य कस्यापि महतः प्रच्छायशीतले तले निषण्णा, 'कासि वासु, कुतोऽस्यागता, कस्य हेतोरस्य मे प्रसीदसि ?" इति साभिलाषमाभाषिता मया वाङ्मयं मधुवर्षमवर्षत् – 'आर्य, नाथस्य यक्षाणां मणिभद्रस्यास्मि दुहिता तारावली नाम । साहं कदाचिदगस्त्यपत्नीं लोपामुद्रां नमस्कृत्यापावर्तमाना मलयगिरेः परेतावासे वाराणस्याः कमपि दारकं रुदन्तमद्राक्षम् । आदाय चैनं तीव्रस्नेहान्मम पित्रोः संनिधिमनैषम् । अनैषीच्च मे पिता देवस्यालकेश्वरस्यास्थानीम् । अथाहमाहूयाज्ञप्ता हरसखेन 'बाले बाले-
 
पदचन्द्रिका ।
 
लूनबन्धस्त्रुटितबन्धनः । तमसिं मातङ्गकरकृपाणम् ।आच्छिद्यापहृत्य । तमन्त्यजं चण्डालम् । अपासरमगच्छम् । अशरणो गृहरक्षकहीनः । दिव्यः स्वर्ग्य आकारो यस्यास्तया । उपास्थायिषि समीपवर्त्यासम् । अञ्जलिकिसलयोत्तंसितेनाञ्ज- लिपल्लवशिखरितेन । मुखे विलोलाः कुन्तलाः केशा यस्येति तथा तेन । मूर्ध्ना मस्तकेन । प्रच्छायशीतले प्रकृष्टच्छायाशिशिरे । कस्य हेतोः । किमर्थमित्यर्थः । साभिलाषं सानुरागम् । वाङ्मयं वाक्प्रचुरम् । मधुवर्ष मधुवृष्टिम् । यक्षाणां नाथस्य । 'विद्याधराप्सरो- यक्षरक्षोगन्धर्वकिन्नराः' इत्यमरवचनाद्दशैते देवयोनिजातयः । मणिभद्रस्तन्नामा । परेतावासे । महाश्मशान इत्यर्थः । दारकं बालकम् । आदाय गृहीत्वा । एनं बालकम् । अकलेश्वरस्य कुबेरस्य । आस्थानीं स्थलम् । 'आस्थानी क्लीबमास्थानम्' इत्यमरः । हरसखेन कुबेरेण । बाले कन्ये इति संबोधनं प्रथमम् ॥
 
भूषणा ।
 
मातङ्गपतिना हन्यमानस्तमेव हत्वा पलायितः । द्वित्राणि दिनानि । 'संख्ययाव्यय-' (२।२।२५) इति बहुव्रीहिः । 'बहुव्रीहौ संख्येये-' (५।४।७३) इति डच् । वैरनिर्यातनं प्रतीकारः । 'वैरशुद्धिः प्रतीकारो वैरनिर्यातनम्' इत्यमरः । वासगृहं गर्भागारम् ।
'गर्भागारं वासगृहम्' इत्यमरः । विहरामि विलासिनीभिः सहेत्यन्ता कामपालोक्तिः । स एवमित्यादि पूर्णभद्रोक्तिः । अलसकेन क्षयेण । 'क्षयस्त्वलसको मतः' इति वैज-
 
लघुदीपिका ।
 
निर्यातनं विवसनम् । वासगृहम् । 'गर्भागारं वासगृहम् । अलसकेन क्षयेण ।
 
[^१]G. 'सपरिवारया'.