This page has not been fully proofread.

१७४
 
दशकुमारचरितम् ।
 
[ चतुर्थ:
 
न्यजं तमन्यांच कश्चित्त्यापारम् । अशरणश्च भ्रमन्नटव्या-
मेकदा मुख्या कयापि दिव्याकारया संपरिचारया कन्ययोपास्था-
यिषि । सा मामञ्जलिकिसलयोत्तंसितेन मुखविलोलकुन्तलेन मूर्ध्ना
प्रणम्य मया सह वनवद्रुमस्य कस्यापि महतः प्रच्छायशीतले तले
निषण्णा, 'कासि वासु, कुतोऽस्यागता, कस्य हेतोरस्य मे प्रसीदसि ?"
इति साभिलाषमाभाषिता मया वाङ्मयं मधुवर्षमवर्षत् – 'आर्य,
नाथस्य यक्षाणां मणिभद्रस्यास्मि दुहिता तारावली नाम । साहं कदा-
चिद्गस्त्यपत्नीं लोपामुद्रां नमस्कृत्यापावर्तमाना मलयगिरेः परेता-
वासे वाराणस्याः कमपि दारकं रुदन्तमद्राक्षम् । आदाय चैनं
तीव्रस्नेहान्मम पित्रोः संनिधिमनैषम् । अनैषीच मे पिता देवस्यालके -
श्वरस्यास्थानीम् । अथाहमाहूयाज्ञप्ता हरसखेन 'वाले वाले-
पदचन्द्रिका ।
 
• लूनबन्धखुटितबन्धनः । तमसिं मातङ्गकरकृपाणम् । आच्छिद्यापहृत्य । तमन्त्यजं
चण्डालम् । अपासरमगच्छम् । अशरणो गृहरक्षकहीनः । दिव्यः स्वर्ग्य आकारो
यस्यास्तया । उपास्थायिषि समीपवर्त्यासम् । अञ्जलिकिसलयोत्तंसितेनाअलिपल्लव-
शिखरितेन । मुखे विलोलाः कुन्तलाः केशा यस्येति तथा तेन । मूर्ध्ना मस्तकेन ।
प्रच्छायशीतले प्रकृटच्छायाशिशिरे । कस्य हेतोः । किमर्थमित्यर्थः । साभिलाषं
सानुरागम् । वाङ्मयं वाक्प्रचुरम् । मधुवर्ष मधुवृष्टिम् । यक्षाणां नाथस्य । 'विद्या-
'धराप्सरोयक्षरक्षोगन्धर्वकिन्नराः' इत्यमरवचनाद्दशैते देवयोनिजातयः । मणिभ-
द्रस्तच्चामा । परेतावासे । महाश्मशान इत्यर्थः । दारकं बालकम् । आदाय गृहीत्वा ।
एनं बालकम् । अकलेश्वरस्य कुबेरस्य । आस्थानीं स्थलम् । 'आस्थानी क्लीबमा-
स्थानम्' इत्यमरः । हरसखेन कुबेरेण । बाले कन्ये इति संबोधनं प्रथमम् ॥
 
भूषणा ।
 
मातङ्गपतिना हन्यमानस्तमेव हत्वा पलायितः । द्वित्राणि दिनानि । 'संख्ययाव्यय-
(२।२।२५) इति बहुव्रीहिः । 'बहुव्रीहौ संख्येये-' (५।४।७३) इति डच् । वैरनिर्यातनं
प्रतीकारः । 'वैरशुद्धिः प्रतीकारो वैरनिर्यातनम् इत्यमरः । वासगृहं गर्भागारम् ।
'गर्भागारं वासगृहम्' इत्यमरः । विहरामि विलासिनीभिः सहेत्यन्ता कामपालोक्तिः ।
•स एवमित्यादि पूर्णभद्रोक्तिः । अलसकेन क्षयेण । 'क्षयस्त्वलसको मतः' इति वैज-
लघुदीपिका ।
 
,
 
निर्यातनं विवसनम् । वासगृहम् । 'गर्भागारं वासगृहम् । अलसकेन क्षयेण
 
पाठा०-१ 'सपरिवारया'.