2023-09-03 13:57:46 by Lakshmainarayana achar

This page has been fully proofread twice.

पुरे सा मयासीदापन्नसत्त्वा । कंचित्सुतं च प्रसूतवती । मृतजात
इति सोऽपविद्धो रहस्यनिर्भेदभयात्परिजनेन क्रीडाशैले । शबर्या
च श्मशानाभ्याशं नीतः । तयैव निवर्तमानया निशीथे राजवी-
थ्यामारक्षिकपुरुषैरभिगृह्य तर्जितया दण्डपारुष्यभीतया निर्भिन्न-
प्रायं रहस्यम् । राजाज्ञया निशीथेऽ [^१]हमाक्रीडनगिरिदरीगृहे विश्रब्धप्रसुप्तस्तयोपदर्शितो यथोपपन्नरज्जुबद्धः श्मशानमुपनीय मातङ्गोद्यतेन कृपाणेन प्राजिहीर्ष्ये ।नियतिबलाल्लूनबन्धस्तमसिमाच्छिद्या-
 
पदचन्द्रिका ।
 
जातगर्भा । 'आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी' इत्यमरः । प्रसूतवती । सुषुव इत्यर्थः । स बालकः । अपविद्धस्त्यक्तः । रहस्यं गोप्यं तस्य निर्भेदः प्रकटीभावस्तस्माद्भयं भीतिः । क्रीडाशैले खेलापर्वते । शबर्या भिल्ल्या । अभ्याशं समीपम् । निवर्तमानया परावृत्य गृहं प्रत्यागच्छन्त्या । आरक्षिकपुरुषैः संरक्षणकारकपुरुषैः । अभिगृह्य धृत्वा । तर्जितया भीषितया । दण्डपारुष्यं मारणादि । निर्भिन्नप्रायं प्रकाशितप्रायम् ।निशीथेऽर्धरात्रे । आक्रीडनगिरिदरीगृहे । क्रीडापर्वत-कन्दरायामित्यर्थः । तया शबर्या । उपदर्शितः प्रदर्शितः । यथोपपन्नरज्जुबद्धो यथाप्राप्तदोरकबद्धः । मातङ्गश्चण्डालः । 'चण्डालप्लवमातमदिवाकीर्तिजनङ्गमाः' इत्यमरः । कृपाणेन खड्गेन । प्राजिहीर्ष्ये प्रहृतः । नियतिबलाददृष्टप्रभावात् ।
 
भूषणा ।
 
मदनदमनः शिवः । आपन्नसत्त्वा गुर्विणी । 'आपन्नसत्त्वा स्याद्गु- र्विणी' इत्यमरः । आक्रीडगिरिरुद्यानपर्वतः । 'पुमानाक्रीड उद्यानम्' इत्यमरः । शबर्या म्लेच्छभेदस्त्रिया । 'भेदाः- किरातशबरपुलिन्दाः' इत्यमरः । आच्छिद्यापहृत्य । उत्तंसितेन शेखरितेन । आस्थानीं सभाम् । 'आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः' इत्यमरः । अनेकमृत्युमुखपरिभ्रष्टं कान्ति-
मतीसखीभिः क्रीडागिरौ त्यक्तं शबर्या च श्मशाने । एकपिङ्गः कुबेरः । 'यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः' इत्यमरः । कृतान्तयोगात् दैवयोगात् । कृतान्तमुखपरिभ्रष्टं यममुखभ्रष्टम् । 'कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु' इत्यमरः ।
 
लघुदीपिका ।
 
ण्यन्तर्वत्नी च गर्भिणी । आक्रीडगिरिरुद्यानपर्वतः । 'पुमानाक्रीड उद्यानम् । आच्छिद्यापहृत्य । उत्तंसितेन शेखरितेन । 'आस्थानी क्लीबमास्थानम्' । कृतान्तयोगात् । 'कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु' इति वैजयन्ती ।
 
१ 'आक्रीड'.