This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
पुरे सा मयासीदापन्नसत्त्वा । कंचित्सुतं च प्रसूतवती । मृतजात
इति सोऽपविद्धो रहस्यनिर्भेद्भयात्परिजनेन क्रीडाशैले । शबर्या
च श्मशानाभ्याशं नीतः । तयैव निवर्तमानया निशीथे राजवी-
ध्यामारक्षिकपुरुषैरभिगृह्य तर्जितया दण्डपारुष्यभीतया निर्मिन्न-
प्रायं रहस्यम् । राजाज्ञया निशीथेऽहंमाक्रीडनगिरिदुरीगृहे विश्र -
ब्धप्रसुप्तस्तयोपदर्शितो यथोपपन्नरज्जुबद्धः श्मशानमुपनीय मातङ्गो-
द्यतेन कृपाणेन त्राजिहीर्ष्य । नियतिबलाल्लूनबन्धस्तमसिमाच्छिद्या-
पदचन्द्रिका ।
 

 
जातगर्भा । 'आपन्नसत्त्वा स्यादुर्विण्यन्तर्वत्री च गर्भिणी' इत्यमरः । प्रसूतवती ।
सुषुव इत्यर्थः । स बालकः । अपविद्धस्त्यक्तः । रहस्यं गोप्यं तस्य निर्भेदः प्रकटी-
भावस्तस्माद्भयं भीतिः । क्रीडाशैले खेलापर्वते । शबर्या भिल्लया । अभ्याशं समी-
पम् । निवर्तमानया परावृत्य गृहं प्रत्यागच्छन्त्या । आरक्षिकपुरुषैः संरक्षणकारक-
पुरुषैः । अभिगृह्य धृत्वा । तर्जितया भीषितया । दण्डपारुष्यं मारणादि । निर्भि-
नप्रायं प्रकाशितप्रायम् । निशीथेऽर्धरात्रे । आक्रीडनगिरिदरीगृहे । क्रीडापर्वत-
कन्दरायामित्यर्थः । तया शबर्या । उपदर्शितः प्रदर्शितः । यथोपपन्नरज्जुबद्धो
यथाप्राप्तदोरकबद्धः । मातङ्गश्चण्डालः । 'चण्डालप्लवमातमदिवाकीर्तिजनङ्गमाः
इत्यमरः । कृपाणेन खड्न । प्राजिहीये प्रहृतः । नियतिबलाददृष्टप्रभावात् ।
 

 
भूषणा ।
 
1
 
1
 
मदनदमनः शिवः । आपन्नसत्त्वा गुर्विणी । 'आपन्नसत्त्वा स्यादुर्विणी
इत्यमरः । आक्रीडगिरिरुद्यानपर्वतः । 'पुमानाकीड उद्यानम्' इत्यमरः ।
शबर्या म्लेच्छमेदस्त्रिया 'भेदाः किरातशबरपुलिन्दाः' इत्यमरः
आच्छिद्यापहृत्य । उत्तसितेन शेखरितेन । आस्थानीं सभाम् । 'आस्थानी
क्लीबमास्थानं स्त्रीनपुंसकयोः सदः' इत्यमरः । अनेकमृत्युमुखपरिभ्रष्टं कान्ति-
सतीसखीभिः क्रीडागिरौ त्यक्तं शबर्या च श्मशाने । एकपिङ्गः कुबेरः ।
'यक्षैकपिशैलविलश्रीदपुण्यजनेश्वराः' इत्यमरः । कृतान्तयोगात् दैवयोगात् । कृतान्त-
मुखपरिभ्रष्टं यममुखभ्रष्टम् । 'कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु' इत्यमरः ।
 
लघुदीपिका ।
 
व्यन्तर्वत्नी च गर्भिणी । आक्रीडगिरिरुद्यानपर्वतः । 'पुमानाक्रीड उद्यानम् ।
आच्छिद्यापहृत्य । उत्तंसितेन शेखरितेन । 'आस्थानी क्लीबमास्थानम्' ।
कृतान्तयोगात् । 'कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु इति वैजयन्ती ।
 
१ 'आक्रीड'.