2023-07-03 15:25:55 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
पृष्टश्च मयैकदा रहसि जातविश्रम्भेणाभाषत स्वचरितम्-
'आसीत्कुसुमपुरे राज्ञो रिपुंजयस्य मन्त्री धर्मपालो नाम विश्रुतधी: श्रुतर्षिः । अमुष्य पुत्रः सुमित्रो नाम पित्रैव समः प्रज्ञागुणेषु । तस्यास्मि द्वैमातुरः कनीयान्भ्राताहम् । वेशेषु विलसन्तं मामसौ विनयरुचिरवारयत् । अवार्यदुर्नयश्चाहमपसृत्य दिङ्मुखेषु भ्रमन्यदृच्छयास्यां वाराणस्यां प्रमदवने [^१]मदनदमनाराधनाय निर्गत्य सहसखीभिः कन्दुकेनानुक्रीडमानां काशीभर्तुश्चण्डसिंहस्य कन्यां कान्तिमतीं [^२]नाम चकमे । कथमपि समगच्छे च । अथ छन्नं च विहरता कुमारी-
पदचन्द्रिका ।
रहस्येकान्ते । विश्रम्भो विश्वासः । आसीदिति । रिपुंजयस्यैतन्नाम्नः । श्रुतर्षिरधीतवेदः । 'ऋषिस्तु वेदे भृग्वादौ ज्ञानवृद्धे दिगम्बरे' इति वैजयन्ती । 'ऋत्यकः( ६। १।१२८ ) इति प्रकृतिभावः । अमुष्य धर्मपालस्य । प्रज्ञागुणेषु धीगुणेषु । ते गुणाः षट्- 'शुश्रूषा ग्रहणं चैव श्रवणं चावधारणम् । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥' इति कामन्दके । द्वैमातुरो द्वयोर्मात्रोरपत्यं तथा । द्विमातृज
इत्यर्थः । कनीयान्कनिष्ठः । वेशेषु वेश्यासु । असौ सुमित्रनामा ज्येष्ठभ्राता । अवार्यदुर्नयोऽवार्यो दूरीकर्तुमशक्यो दुर्नयो
दुर्नीतिर्यस्येति सः । अपसृत्य । ततो निर्गत्येत्यर्थः । दिङ्मुखेषु दिगन्तेषु । प्रमदवनेऽन्तःपुरोचितवने । 'स्यादेतदेव प्रमद-
वनमन्तःपुरोचितम्' इत्यमरः । मदनदमनाराधनाय मदनशत्रुर्महादेवस्तत्पूजार्थम् । कन्दुकेन क्रीडोपकरणेन । काशीभर्तुर्वाराणसीपतेः । चकमेऽभिलषितवान् ।
समगच्छे संगतोऽभवम् । अथेति । छन्नं गुप्तम् । सा कान्तिमती । आपन्नसत्त्वा
भूषणा ।
श्रुता लोके प्रसिद्धा धीरस्य विश्रुतधीः । श्रुतर्षिरधीतवेदः । 'ऋत्यकः' (६।१।१२८ ) इति प्रकृतिभावः । प्रज्ञागुणेषु बुद्धिगुणेषु । ते चोक्ता: कामन्दके – शुश्रूषा ग्रहणं चैव श्रवणं चावधारणम् । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥' इति। द्वैमातुरो द्वयोर्मात्रोरपत्यम् । 'मातुरुत्संख्या-' (४।१।११५ ) इत्युदादेशः ।
लघुदीपिका ।
'ऋषिस्तु वेदे भृग्वादौ ज्ञानवृद्धे दिगम्बरे' इति वैजयन्ती । 'ऋत्यकः' इति प्रकृतिभावः । प्रज्ञागुणेषु धीगुणेषु । गुणाश्च षट्- 'शुश्रूषा श्रवणं चैव ग्रहणं चावधारणम् । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ इति कामन्दके । द्वैमातुरः द्वयोर्मात्रोरपत्यम् । आपन्नसत्त्वा गुर्विणी । 'आपसन्नसत्त्वा स्याद्गुर्वि-
[^१]G. 'मदनाराधनाय'
[^२]G. 'नामाचकमे'.