2023-09-03 13:58:00 by Lakshmainarayana achar

This page has been fully proofread twice.

बद्धमन्युना निर्भर्त्याभिहतो निवृत्यापाद्रवत् । अथ मयो [^१]पेत्य
सरभसमाक्रुष्टो रुष्टश्च यन्ता — 'हन्त, [^२]मृतोऽसि कुञ्जरापसद' इत निशितेन वारणेन वारणं मुहुर्मुहुरभिघ्नन्निर्याणभागे कथमपि मदभिमुखमकरोत् । अथावोचम् – 'अपसरतु [^३]द्विपकीट एषः । अन्यः कश्चिन्मातङ्गपतिरानीयताम् । येनाहं मुहूर्तं विहृत्य गच्छामि गन्तव्यां गतिम्' इति । दृष्ट्वैव स मां रुष्टमुद्गर्जन्त-
[^४]मुत्क्रान्तयन्तृनिष्ठुराज्ञः पलायिष्ट । मन्त्रिणा पुनरहमाहूयाभ्यधायिषि – 'भद्र, मृत्युरेवैष मृत्युविजयो नाम हिंसाविहारी । सोऽयमपि तावत्त्वयैवंभूतः कृतः । तद्विरम्य कर्मणोऽस्मान्मलीमसात्किमलमसि प्रतिपद्यास्मानार्यवृत्त्या वर्तितुम्' इति । 'यथाज्ञापितोऽस्मि' इति विज्ञापितोऽयं मया मित्रवन्मय्यवर्तिष्ट ।
 
पदचन्द्रिका ।
 
मन्युना द्विगुणितक्रोधेन । 'मन्युर्दैन्ये क्रतौ क्रुधि' इत्यमरः ।
निर्भर्त्स्य निर्भर्त्सनं कृत्वा । अभिहतस्ताडितः । निवृत्य परावृत्य । अपाद्रवत् । पलायनपरोऽभूदित्यर्थः । अथेति । उपेत्य गत्वा । सरभसं सवेगम् । आक्रुष्ट आक्रोशं प्रापितः । निन्दित
इत्यर्थः । यन्ता हस्तिपकः । अपसदाऽधम । 'निहीनोऽपसदो जाल्मः' इति वैजयन्ती । निशितेन तीक्ष्णेन । वारणेनाङ्कुशेन । 'वारणस्तु गजे प्रोक्तो वारणं तन्निवारणे' इत्यजयः । वारणं गजम् । अभिघ्नंस्ताडयन् । निर्याणभागेऽपाङ्गदेशे । 'अपाङ्गदेशो निर्याणम्' इत्यमरः । मदभिमुखं मत्संमुखम् । अपसरतु । गच्छत्वित्यर्थः ।
द्विपकीटो हस्तिकीटः । गन्तव्यां प्राप्तव्यां गतिम् । मरणमित्यर्थः । स गजः । रुष्टं क्रुद्धम् । उद्गर्जन्तं दीर्घतरं वदन्तम् ।उत्क्रान्तातिक्रान्ता यन्तुराधोरणस्य निष्ठुरा क्रूराज्ञा येनेति । पलायिष्ट पलायनपरोऽभूदित्यर्थः । अभ्यधायिष्यभिहितः
मृत्युविजय एतन्नामा गजः । एवंभूतः पराभूतः । विरम्य विरामं प्राप्य । अस्मात्कर्मणश्चौर्यरूपात् । मलीमसान्मलिनात् । 'मलीमसं तु मलिनम्' इत्यमरः । अलमसि शक्तोऽसि । प्रतिपद्य प्राप्य । आर्यवृत्त्या श्रेष्ठवृत्त्या । अयममात्यः । मयेति ॥
 
भूषणा ।
 
णम्' इत्यमरः । मया पूर्णभद्रेण । स्वचरितम् । अत्र स्व: कामपालः । वि-
 
लघुदीपिका ।
 
कुञ्जरापसदो गजाधमः । 'निहीनोऽपसदो जाल्मः' । कुत्सने समासः । वारणेनाङ्कुशेन । निर्याणभागे । 'अपाङ्गदेशो निर्याणम्' । मलीमसम् । 'मलीमसं तु मलिनं कच्चरं मलदूषितम्' । श्रुतर्षिरवधृतवेदः । 'श्रुतं शास्त्रावधृतयोः'
 
[^१]G. 'अनुपत्य
[^२]G. 'मृतोऽसि क्व गच्छासि.
[^३]G. 'द्विरदवराकः
[^४]G. 'उत्क्रामन्तम्'
[^५]G. 'मृत्युरिव'.