This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् ।
 
१७१
 
बद्धमन्युना निर्भर्त्याभिहतो निवृत्यापाद्रवत् । अथ मयोपेत्य
सरभसमाक्रुष्टो रुष्टश्च यन्ता — 'हन्त, मृतोऽसि कुञ्जरापसद्' इति
निशितेन वारणेन वारणं मुहुर्मुहुरभिघ्नन्निर्याणभागे कथमपि मद्-
भिमुखमकरोत् । अथावोचम् – 'अपसरतु द्विपैकीट एषः । अन्यः
क्रश्चिन्मातङ्गपतिरानीयताम् । येनाहं मुहूर्तं विहृत्य गच्छामि
गन्तव्यां गतिम्' इति । दृष्ट्वैव स मां रुष्टमुद्गर्जन्तर्मुत्क्रान्तयन्तृ-
निष्ठुराज्ञः पलायिष्ट । मत्रिणा पुनरहमाहूयाभ्यधायिषि – 'भद्र,
मृत्युरेवैष मृत्युविजयो नाम हिंसाविहारी । सोऽयमपि ताव-
त्त्वयैवंभूतः कृतः । तद्विरम्य कर्मणोऽस्मान्मलीमसात्किमलमसि
प्रतिपद्यास्मानार्यवृत्त्या वर्तितुम्' इति । 'यथाज्ञापितोऽस्मि' इति
विज्ञापितोऽयं मया मित्रवन्मय्यवर्तिष्ट ।
 
Separar la
 
पदचन्द्रिका ।
 
मन्युना द्विगुणितक्रोधेन । 'मन्युदैन्ये ऋतौ कुधि' इत्यमरः । निर्भय निर्भर्त्सनं
कृत्वा । अभिहतस्ताडितः । निवृत्य परावृत्य । अपाद्रवत् । पलायनपरोऽभूदित्यर्थः ।
अथेति । उपेत्य गला । सरभसं सवेगम् । आक्रुष्ट आक्रोशं प्रापितः । निन्दित
इत्यर्थः । यन्ता हस्तिपकः । अपसदाऽधम । 'निहीनोऽपसदो जाल्मः' इति वैज-
यन्ती । निशितेन तीक्ष्णेन । वारणेनाङ्कुशेन । 'वारणस्तु गजे प्रोक्तो वारणं तन्नि-
वारणे' इत्यजयः । वारणं गजम् । अभिघ्नंस्खाडयन् । निर्याणभागेऽपाङ्गदेशे । 'अपाङ्ग-
देशो निर्याणम्' इत्यमरः । मदभिमुखं मत्संमुखम् । अपसरतु । गच्छत्वित्यर्थः ।
द्विपकीटो हस्तिकीटः । गन्तव्यां प्राप्तव्यां गतिम् । मरणमित्यर्थः । स गजः । रुष्टं
क्रुद्धम् । उद्गर्जन्तं दीर्घतरं वदन्तम् । उत्क्रान्तातिक्रान्ता यन्तुराधोरणस्य निष्ठुरा
क्रूराज्ञा येनेति । पलायिष्ट पलायनपरोऽभूदित्यर्थः । अभ्यधायिष्यभिहितः
मृत्युविजय एतन्नामा गजः । एवंभूतः पराभूतः । विरम्य विरामं प्राप्य । अस्मा-
त्कर्मणश्चौर्यरूपात् । मलीमसान्मलिनात् । 'मलीमसं तु मलिनम्' इत्यमरः । अल-
मसि शक्तोऽसि । प्रतिपद्य प्राप्य । आर्यवृत्त्या श्रेष्ठवृत्त्या । अयममात्यः । मयेति ॥
 
पाठा० - १ 'अनुपत्य'.
 
2 'उत्क्रामन्दम्' ५ 'मृत्युरिव'.
 
भूषणा ।
 
णम्' इत्यमरः । मया पूर्णभद्रेण । स्वचरितम् । अत्र स्खः कामपालः । वि
लघुदीपिका ।
 
कुअरा पसदो गजाधमः । 'निहीनोऽपसदो जाल्मः' । कुत्सने समासः । वारणे-
नाङ्कुशेन । निर्याणभागे । 'अपाङ्गदेशो निर्याणम्' । मलीमसम् । 'मलीमसं तु
मलिनं कच्चरं मलदूषितम् । श्रुतर्षिरवटतवेदः । 'श्रुतं शास्त्रावधृतयोः'
गच्छसि'. ३ 'द्विरदवराकः.
 
२ 'मृतोऽसि व गच्छासे.
२ 'मृतोऽसि व