2023-09-03 13:58:08 by Lakshmainarayana achar

This page has been fully proofread twice.

मृत्युविजयो नाम हिंसाविहारी राजगोपुरोपरितलाधिरूढस्य
पश्यतः कामपालनाम्न उत्तमामात्यस्य शासनाज्जनकण्ठरव- द्विगुणितघण्टारवो [^१]मण्डलितहस्तकाण्डं समभ्यधावत् । अभिपत्य च मया निर्भयेन निर्भसितः परिणमन्दारुखण्ड- सुषिरानुप्रविष्टोभयभुज [^२]दण्डघटितप्रतिमानो भीतवन्न्यवर्तिष्ट । भूयश्च नेत्रा जातसंरम्भेण निकामदारुणैर्वाङ्कुशपादपातै- रभिमुखीकृतः । मयापि द्विगुणा-
 
पदचन्द्रिका ।
 
श्लोके यशोनाटकादौ सौन्दर्यशब्दयोः । ग्रन्थावृत्तौ तथाकारे स्वभावे नाणके मृगे' इति महीपः । वध्ये वधार्हे । मत्तहस्ती मत्तगजः । राजद्वारस्य गोपुरं प्रतोली । 'गोपुरं हि प्रतोल्यां च नगरद्वारयोरपि' इति महीपः । उपरितलमूर्ध्वप्रदेशस्तत्राधिरूढस्य । अमात्यस्य मन्त्रिणः । जनकण्ठरवो लोकसांनिध्यशब्दः ।
"कण्ठो गले संनिधाने ध्वनौ मदनपादपे' इति विश्वः । द्विगुणितो द्विगुणीकृतः । मण्डलितं मण्डलाकारं कृतं हस्तकाण्डं शुण्डादण्ड इति क्रियाविशेषणम् । निर्भसितस्तर्जितः। परिणमंस्तिर्यग्दन्तप्रहारं कुर्वन् । 'तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः' इति वैजयन्ती । दारुखण्डं काष्ठखण्डं तस्य सुषिरं बिलं तत्रानुप्रविष्टावुभ-
यभुजदण्डौ ताभ्यां घटितं संघर्षितं प्रतिमानं यस्य । 'दन्तयोरुभयोर्मध्यं प्रतिमानं प्रचक्षते' इति वैजयन्ती । 'प्रतिमानमधोऽस्य यत्' इत्यमरश्च । 'वाहित्थाधः प्रतिमानम्' इति हैमोऽपि । नेत्रा आधोरणेन । जातसंरम्भेण जातक्रोधेन ।
निकामदारुणैरतिकठोरैः । वागङ्कुशपादपातै: । वाक् संकेतः । अङ्कुशः सृणिः । पादश्चरणः । तत्पातः । अभिमुखीकृतः संमुखीकृतः । मयापीति । द्विगुणाबद्ध-
 
भूषणा ।
 
स्तेयं लोप्त्रं तु तद्धनम्' इत्यमरः । मण्डलितकरो मण्डलाकृतिशुण्डदण्डः । 'परिणमन् । तिर्यग्दन्तप्रहारं कर्तुं नमनं परिणमनम् । दारुखण्डसुषिरेऽनुप्रविष्टभुजदण्डचण्डिमघटितं तादृशदारुखण्डाग्रेण ताडितं प्रतिमानं दन्तान्तरालं यस्य
। 'प्रतिमानं प्रतिच्छाया गजदन्तान्तरालयोः' इति विश्वः । 'अधः
कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत्' इत्यमरः । आक्रुष्टो निन्दितः । कुञ्जरापसदो गजाधमः । निहीनोऽपसदो जाल्मः' इत्यमरः । 'अपसदः कुत्सने ' इति समासः । वारणेनाङ्कुशेन । निर्याणभागेऽपाङ्गदेशे । 'अपाङ्गदेशो निर्या-
 
लघुदीपिका ।
 
श्चोरितेन संगृहीतः । दन्ताभ्यां तिर्यक्प्रहारः परिणमनम् । 'दन्तयोरुभयोर्मध्यं प्रतितिमानं प्रचक्षते' । वागङ्कुशपादैर्वाचाङ्कुशेन पादेन च आक्रुष्टो निन्दितः ।
 
[^१]G.'मण्डलितकर:'.
[^२]G.'दण्डचण्डघटित'.