2023-08-31 03:55:39 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१७०
 
दशकुमारचरितम् ।
 
[ चतुर्थ:
 
मृत्युविजयो नाम हिंसाविहारी राजगोपुरोपरितलाधिरूढस्य

पश्यतः कामपालनाम्न उत्तमामात्यस्य शासनाज्जनकण्ठरव- द्विगुणित-
घण्टारवो मै[^१]मण्डलितहस्तकाण्डं समभ्यधावत् । अभिपत्य च मया
निर्भयेन निर्भसितः परिणमन्दारुखण्ड- सुषिरानुप्रविष्टोभयभुज-
[^२]दण्डघटितप्रतिमानो भीतवश्न्न्यवर्तिष्ट । भूयञ्श्च नेत्रा जातसंरम्भेण
निकामदारुणैर्वाङ्कुशपादपातै- रभिमुखीकृतः । मयापि द्विगुणा-

 
पदचन्द्रिका ।
 

 
श्लोके यशोनाटकादौ सौन्दर्यशब्दयोः । ग्रन्थावृत्तौ तथाकारे स्वभावे नाणके
मृगे' इति महीपः । वध्ये वधाईेर्हे । मत्तहस्ती मत्तगजः । राजद्वारस्य गोपुरं
प्रतोली । 'गोपुरं हि प्रतोल्यां च नगरद्वारयोरपि' इति महीपः । उपरितलमूर्ध्व-
प्रदेशस्तत्राधिरूढस्य । अमात्यस्य मन्त्रिणः । जनकण्ठरवो लोकसांनिध्यशब्दः ।

"कण्ठो गले संनिधाने ध्वनौ मदनपादपे' इति विश्वः । द्विगुणितो द्विगुणीकृतः ।
मण्डलितं मण्डलाकारं कृतं हस्तकाण्डं झुशुण्डादण्ड इति क्रियाविशेषणम् । निर्भसि-
तस्तर्जितः । परिणमंस्तिर्यग्दन्तप्रहारं कुर्वन् । 'तिर्यग्दन्तप्रहारस्तु गजः परिणतो
-
मतः' इति वैजयन्ती । दारुखण्डं काष्ठखण्डं तस्य सुषिरं बिलं तत्रानुप्रविष्टावुभ-

यभुजदण्डौ ताभ्यां घटितं संघर्षितं प्रतिमानं यस्य । 'दन्तयोरुभयोर्मध्यं
प्रतिमानं प्रचक्षते' इति वैजयन्ती । 'प्रतिमानमधोऽस्य यत्' इत्यमरश्च । 'वाहि-
त्याधः प्रतिमानम्' इति हैमोऽपि । नेत्रा आधोरणेन । जातसंरम्मेभेण जातक्रोधेन ।

निकामदारुणैरतिकठोरैः । वागपादपाः । वाक् संकेतः । अङ्कुशः सृणिः ।
वागङ्कुशपादपातैः
तै: । वाक् संकेतः । अङ्कुशः सृणिः । पादश्चरणः । तत्पातः । अभिमुखीकृतः संमुखीकृतः । मयापीति । द्विगुणाबद्ध-

 
भूषणा ।
 

 
स्तेयं लोप्त्रं तु तद्धनम्' इत्यमरः । मण्डलितकरो मण्डलाकृतिशुण्डदण्डः ।
'परिणमन् । तिर्यग्दन्तप्रहारं कर्तुतुं नमनं परिणमनम् । दारुखण्डसुषिरेऽनुप्रविष्ट-
भुजदण्डचण्डिमघटितं तादृशदारुखण्डाग्रेण ताडितं प्रतिमानं दन्तान्तरालं यस्य
 

। 'प्रतिमानं प्रतिच्छाया गजदन्तान्तरालयोः' इति विश्वः । 'अधः

कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत्' इत्यमरः । आक्रुष्टो निन्दितः ।
कुञ्जरापसदो गजाधमः । निहीनोऽपसदो जाल्मः' इत्यमरः । 'अपसदः कुत्सने '
.
इति समासः । वारणेनाङ्कुशेन । निर्याणभागेऽपाङ्गदेशे । 'अपाङ्गदेशो निर्या-

 
लघुदीपिका ।
 

 
श्
चोरितेन संगृहीतः । दन्ताभ्यां तिर्यक्प्रहारः परिणमनम् । 'दन्तयोरुभयोर्मध्यं
'अ
प्रतितिमानं प्रचक्षते' । वागङ्कुशपादैर्वाचाङ्कुशेन पादेन च आक्रुष्टो निन्दितः ।
 
पाठा०-

 
[^
]G.'मण्डलितकर:'.
[^
]G. 'टु'दण्डचण्डघटित'.