2023-09-03 13:58:15 by Lakshmainarayana achar
This page has been fully proofread twice.
निस्पृहः किमपि कृच्छ्रं प्रियजनव्यसनमूलं [^१]प्रतिपत्स्यते । तत्पृ-
च्छेयमेनम् । अस्ति चेन्ममापि कोऽपि साहाय्यदानावकाशस्त-
मेनमभ्युपेत्येत्यपृच्छम् – 'भद्र, संनाहोऽयं साहसमवगमयति । न
चेद्गोप्यमिच्छामि श्रोतुं शोकहेतुम्' इति । स मां सबहुमानं निर्वर्ण्य
'को दोषः, श्रूयताम्' इति । क्वचित्करवीरतले मया सह निषण्णः
कथामकार्षीत् –'महाभाग, सोऽहमस्मि [^२]पूर्वेषु कामचर: पूर्ण-
भद्रो नाम गृहपतिपुत्रः । प्रयत्नसंवर्धितोऽपि पित्रा दैवच्छन्दानुवर्ती चौर्यवृत्तिरासम् । अथास्यां काशीपुर्यामर्यवर्यस्य कस्यचिद्गृहे चोरयित्वा रूपाभिग्राहितो बद्धः । वध्ये च मयि मत्तहस्ती
पदचन्द्रिका ।
कः । कृच्छ्रं कष्टम् । प्रतिपत्स्यते प्राप्स्यति । तदिति । पृच्छेयम् । पृच्छामीत्यर्थः । एनं पुरुषम् । ममापि मत्कर्तृकम् । सहायस्य कर्म भावो वा साहाय्यं तस्य दाने अवकाशः समयः । अभ्युपेत्य । गत्वेत्यर्थः । संनाहः परिकरः । साहसमुद्योगम् । प्राणनिरपेक्षं कर्म साहसमुच्यते । अवगमयति बोधयति । गोप्यमप्रकाश्यम् । शोक-
हेतुं शोककारणम् । स पुरुषः । सबहुमानं बहुमानेन सह वर्तमानम् । निर्वर्ण्य दृष्ट्वा । करवीरतले हयमारकवृक्षाधोभागे । 'प्रतिहासशतप्रासचण्डातहयमारकाः । करवीरे' इत्यमरः । अकार्षीत् । अकरोदित्यर्थः । पूर्वेषु पूर्वदेशेषु । कामचरः स्वेच्छा-
गमनकर्ता । गृहपतिर्ग्रामाध्यक्षः । दैवच्छन्दो दैववशः । 'अभिप्रायवशौ छन्दौ' इत्यमरः । तदनुवर्ती तदनुसारी । अर्यवर्यस्य वैश्यश्रेष्ठस्य । 'स्यादर्यः स्वामिवैश्ययोः' इत्यमरः । रूपाभिग्राहितश्चौर्यवस्तुनाणकेन ग्राहितो धारितः । रूपं
भूषणा ।
संवादिसजातीयानुवादिनः' इति दण्डी । कृच्छ्रं दुःखम् । 'स्यात्कष्टं कृच्छ्रमाभीलम्' इत्यमरः । किमपि साहाय्यावकाशस्तदेनं पृच्छेयमित्यन्वयः । निर्वर्ण्य दृष्ट्वा । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः । पूर्वेषुकामचरः । 'इषुकाम' इति देशस्य संज्ञा । दैवच्छन्दो दैववशः । 'अभिप्रायवशौ छन्दौ'
इत्यमरः । रूपाभिग्राहितो लोप्त्रेण सह संगृहीतः । चौरिका स्तैन्यचौर्ये च
लघुदीपिका ।
क्सदृशसंवादीसजातीयानुवादिनः' इति दण्डी । कृच्छ्रं दुःखम् । कोऽपि साहाय्यावकाशस्तदेनं पृच्छेयमित्यन्वयः । निर्वर्ण्य दृष्ट्वा । पूर्वेषुकामचारः पूर्वस्यां दिशि यथेष्टाचारः । दैवच्छन्दो दैववशः । 'अभिप्रायवशौ छन्दौ' । रूपाभिगृहीत-
[^१]G.'प्रपित्सते'.
[^२]G.'पूर्वेषुकामचर: '.
१५ द० कु०