2023-07-02 17:29:06 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । १६९
निस्पृहः किमपि कृच्छ्रं प्रियजनव्यसनमूलं प्रे[^१]प्रतिपत्स्यते । तत्प्पृ-

च्छेयमेनम् । अस्ति चेन्ममापि कोऽपि साहाय्यदानावकाशस्त-

मेनमभ्युपेत्येत्यपृच्छम् – 'भद्र, संनाहोऽयं साहसमवगमयति । न

चेद्गोप्यमिच्छामि श्रोतुं शोकहेतुम्' इति । स मां सबहुमानं निर्वर्ण्य

'को दोषः, श्रूयताम्' इति । क्वचित्करवीरतले मया सह निषण्णः

कथामकार्षीत् –'महाभाग, सोऽहमस्मि [^२]पूर्वेषु कामचर: पूर्ण-

भद्रो नाम गृहपतिपुत्रः । प्रयत्नसंवर्धितोऽपि पित्रा दैवच्छन्दा-
नुवर्ती चौर्यवृत्तिरासम् । अथास्यां काशीपुर्यामर्यवर्यस्य कस्य-
चिद्गृहे चोरयित्वा रूपाभिग्राहितो बद्धः । वध्ये च मयि मत्तहस्ती
 
ANT
 

 
पदचन्द्रिका ।
 

 
कः । कृच्छ्रं कष्टम् । प्रतिपत्स्यते प्राप्स्यति । तदिति । पृच्छेयम् । पृच्छामीत्यर्थः ।
एनं पुरुषम् । ममापि मत्कर्तृकम् । सहायस्य कर्म भावो वा साहाय्यं तस्य दाने
अवकाशः समयः । अभ्युपेत्य । गत्वेत्यर्थः । संनाहः परिकरः । साहसमुद्योगम् । प्राण-
निरपेक्षं कर्म साहसमुच्यते । अवगमयति बोधयति । गोप्यमप्रकाश्यम् । शोक-

हेतुं शोककारणम् । स पुरुषः । सबहुमानं बहुमानेन सह वर्तमानम् । निर्वर्ण्य
दृष्टाट्वा । करवीरतले हयमारकवृक्षाधोभागे । 'प्रतिहासशतप्रासचण्डातहयमारकाः ।
करवीरे' इत्यमरः । अकार्षीत् । अकरोदित्यर्थः । पूर्वेषु पूर्वदेशेषु । कामचरः खेस्वेच्छा-

गमनकर्ता । गृहपतिर्याग्रामाध्यक्षः । दैवच्छन्दो दैववशः । 'अभिप्रायवशौ छन्दौ'
इत्यमरः । तदनुवर्ती तदनुसारी । अर्यवर्यस्य वैश्य श्रेष्ठस्य । 'स्यादर्यः स्वामिवै-
श्ययोः' इत्यमरः । रूपाभिग्राहितश्चौर्यवस्तुनाणकेन ग्राहितो धारितः । रूपं
 

 
भूषणा ।
 

 
संवादिसजातीयानुवादिनः' इति दण्डी । कृच्छ्रं दुःखम् । 'स्यात्कष्टं कृच्छ्रमा-
भीलम्' इत्यमरः । किमपि साहाय्यावकाशस्तदेनं पृच्छेयमित्यन्वयः । निर्वर्ण्य
दृष्ट्वा । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः । पूर्वेषुकामचरः ।
'इषुकाम' इति देशस्य संज्ञा दैवच्छन्दो दैववशः । 'अभिप्रायवशौ छन्दौ
'
इत्यमरः । रूपाभिग्राहितो लोप्त्रेण सह संगृहीतः । चौरिका स्तैन्यचौर्ये च
 

 
लघुदीपिका ।
 

 
क्सदृशसंवादीसजातीयानुवादिनः' इति दण्डी । कृच्छ्रं दुःखम् । कोऽपि साहा-
व्
य्यावकाशस्तदेनं पृच्छेयमित्यन्वयः । निर्वर्ण्य दृष्ट्वा । पूर्वेषुकामचारः पूर्वस्यां दिशि
यथेष्टाचारः । दैवच्छन्दो दैववशः । 'अभिप्रायवशौ छन्दौ' । रूपाभिगृहीत-
पाठा० -

 
[^
]G.'प्रपित्सते'.
[^
]G.'पूर्वेषुकामचर: '.
 

१५० कु०