2023-09-03 13:58:22 by Lakshmainarayana achar

This page has been fully proofread twice.

चतुर्थोच्छ्वासः ।
देव, सोऽहमप्येभिरेव सुहृद्भिरेककर्मोर्मिमालिनेमिभूमिवलयं
परिभ्रमन्नुपासरं कदाचित्काशीपुरीं वाराणसीम् । उपस्पृश्य मणि-
भङ्गनिर्मलाम्भसि मणिकर्णिकायामविमुक्तेश्वरं भगवन्तमन्धक-
मथनमभिप्रणम्य प्रदक्षिणं परिभ्रमन्पुरुषमेकमायामवन्तमायसप-
रिघपीवराभ्यां भुजाभ्यामाबध्यमानपरिकरमविरतरुदितोच्छूनताभ्र-
दृष्टिमद्राक्षम् । अतर्कयं च – 'कर्कशोऽयं पुरुषः, कार्पण्यमिव
वर्षति क्षीणतारं चक्षुः, आरम्भश्च साहसानुवादी, नूनमसौ प्राण-
 
पदचन्द्रिका ।
 
इदानीमर्थपाल: स्वचरितमभिधातुमुपचक्रमे – देव, सोऽहमिति । एककर्माल्पकार्यः । कर्म च भवदन्वेषणमिति । ऊर्मिमालिनेमिं समुद्रावधिकां भूमिम् । 'नेमिस्तु चक्रधारायां सीमधर्मव्यवस्थयोः' इत्यजयः । वलयं भूमण्डलम् । उपासरं गतवान् । उपस्पृश्य स्नात्वा । मणिभङ्गो रत्नशकलं तद्वन्निर्मलं शुद्धमम्भो जलं यस्यास्तथा ताम् । अन्धकमथनमन्धकासुरसंहारकम् । प्रदक्षिणं परिभ्रमन् । परिक्रमं कुर्वन्नित्यर्थः । आयामो दैर्ध्य तद्वन्तम् । आयस लोहं तस्य परिघोऽर्गलः । 'अर्गलः स्यात्तु परिघः' इति वैजयन्ती । तद्वत्पीवराभ्यां मांसलाभ्याम् । आबध्यमानपरिकरम् । 'कक्षाबन्धः परिकरः' इति वैजयन्ती । अविरतं निरन्तरम् ।
उच्छूनतोन्नता । कर्कश: कठिनः । कृपणस्य भावः कार्पण्यम् । क्षीणा म्लाना तारका कनीनिका यस्येति । आरम्भ उद्योगः । साहसं महत्कर्म तदनुवादी तद्बोधकः ।
 
भूषणा ।
 
एककर्मा समानकर्मा । कर्म च राजवाहनान्वेषणम् । ऊर्मिमालिनेमिं समुद्रावधिकाम् । 'नेमिस्तु चक्रधारायां सीमायां च' इति । आयसपरिघोऽयोनिर्मितोऽर्गलः । 'परिघ: परिघातेऽस्त्रे' इत्यमरः । परिकरं कक्षाबन्धम् । उच्छूनं प्रवृद्धम् । कार्पण्यं क्षीणत्वम् । साहसानुवादी साहसस्य सदृशः । 'सदृक्सदृश-
 
लघुदीपिका ।
 
एककर्मा समानकर्मा । कर्म च भवदन्वेषणमिति । ऊर्मिमालिनेमिं समुद्रावधिकाम् । 'नेमिस्तु चक्रधारायां सीमधर्मव्यवस्थयोः' इत्यजयः । वाराणसीम् । 'वारा नसीति नद्यौ द्वे पुण्ये पापहरे शुभे । तयोर्मध्यगतत्वात्तु सैषा वाराणसी स्मृता ॥' इति स्कन्दवचनम् । आयसपरिघ आयसनिर्मितोऽर्गलः । 'अर्गलः स्यात्तु परिघः' इति वैजयन्ती । परिकरं कक्षाबन्धम् । उच्छूनं प्रवृद्धम् ।
'टुओश्वि गतिवृद्ध्यो:' । कार्पण्यं क्षीणत्वम् । साहसानुवादी साहसस्य सदृशः । 'सदृ-