This page has not been fully proofread.

दशकुमारचरितम् । [ पूर्वपीठिकायां
 
नव्यवल्लभवरणागतदिव्यकन्या जनजवनिकापटमण्डप इव वियत्त-
लव्याकुले धूलीपटले दिविषद्ध्वनि विकृतान्यध्वनिपटहध्वानवधि-
रिताशेषादिगन्तरालं शराखि हस्ताहरित परस्पराभिहत सैन्यं
जन्यमजनि । तत्र मगधराजः वृक्षीफ्सकलसैन्यमण्डलं सालवराजं
जीवामगृत कृपालुक्या पुनरपि स्वराज्ये प्रयास ।
 
ततः स रत्वाकरमेखका मिला मनुन्यशासनां शासनपत्यतया
नारायणं सकललोकैककारणं निरन्तरमचैयामास । अथ कदाचित्त-
महि देवी कल्पवफलमहि इति प्रभातसमये
'देवेन
सुखप्रक्लोकितवती । सा तदा दयितमनोरथपुष्पभूतं गर्भमषन्त ।
राजापि संपन्यकृताखण्डल: सुहृन्नृपमण्डलं समाहूय विजसंपन्म-
नोरथानुरूपं देव्याः सीमन्तोत्सवं व्यधत ।
 

 
-
 
यस्य । नव्या नवीना ये वल्लभा रमणास्तेषां वरणं पतित्वेन स्वीकरणं तदर्थमागतो
यो दिव्यकन्याजनोऽप्सर: समुदायस्तस्य जवनिका तिरस्करिणी तया युक्तः पटम-
ण्डपः । 'प्रत्यप्रोऽभिनवो नव्यः' इत्यमरः । 'वल्लभो दयितेऽव्यक्षे सलक्षणतुरङ्गमे
इति कोशः । 'प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा इत्यमरः । वियत
आकाशस्य तले व्याकुलं संभृतं तस्मिन् । धूल्या: पांसोः पटलं चयस्तस्मिन् ।
दिविषदां सुराणाम् । अध्वनि मार्गे । दिवि सीदन्ति ते दिविषदः । देवा इत्यर्थः ।
घिकृता अन्यध्वनयो येनैतादृशो यः पटहध्वानो ढक्काध्वनिस्तेन बधिरितमशेषदि-
गन्तरालं यस्मिन् । 'स्यायशःपटहो ढक्का' इत्यमरः । शस्त्राशस्त्रि । शस्त्रैः शस्त्रैश्च
प्रहृत्येदं युद्धं प्रवृत्तमिति । 'तत्र तेनेदम् - ' ( २ २ २७ ) इति बहुव्रीहिः ।
'इच्कर्मव्यतिहारे' (५/४/१२७ ) इतीच्समासान्तः । परस्परस्याभिहतं सैन्य
यस्मिन् । जन्यँ युद्धम् । अजनीति 'जनी प्रादुर्भावे' इत्यस्य लुङि रूपम् । 'जनि-
वयोश्च' ( ७७३।३५ ) इति न वृद्धिः । 'दीपजनबुध-' ( ३।१९६१ ) इति वा
चिण् । प्रक्षीणं हतविध्वस्तम् । 'निष्ठायामण्यदर्थे' ( ६४४१६० ) इति दीर्घः ।
'क्षियो दीर्घात्' ( ८/२९४६ ) इति नः । जीवग्राहम् । जीवन्तमित्यर्थः । 'समूला-
कृतजीवेषु - ( ३।४।३६ ) इति णमुल् ॥
 
तत इति । रत्नाकरः सागरो मेखला कटिसूत्रं यस्याः । इलां पृथ्वीम् ।
'गोरिला कुम्भिनी क्षमा इत्यमरः । नास्त्यन्यशासनं यस्याम् । शासत् । अभ्य-
स्तत्वानुमभावः । सकललोकस्यैककारणमादिहेतुः । प्रभातसमये प्रातःकाले । दयि-
तमनोरथफलस्य पुष्यमिव भूतम् । अवत्तेति 'डुधाञ् धारणपोषणयोः' इत्यस्य
 
आत्मनेपदरूपम् । संपदा न्यकृत आखण्डल इन्द्रो येन । 'आखण्डलस्तुराषाट्
इति इलायुधः । सुहृदय ये नृपास्तेषां मण्डलम् । सुहृदव नृपश्चति वा ।
पाठा०-१ 'मण्डले'. २ 'अवभीरित'. ३ 'आदेहि'; 'आधेहि'.