2023-09-04 17:36:05 by Lakshmainarayana achar

This page has been fully proofread twice.

गान्भोगान्निर्विशन्भूयोऽस्य पितृसखस्य सिंहवर्मणो लेख्याच्चण्ड-
वर्मणश्चम्पाभियोगमवगम्य 'शत्रुवधो मित्ररक्षा चोभयमपि कर-
णीयमेव' इत्यलघुना लघुसमुत्थानेन सैन्यचक्रेणाभ्यसरम् । अभवं
च भूमिस्त्वत्पादलक्ष्मीसाक्षात्क्रियामहोत्सवानन्दराशेः' इति ।
श्रुत्वैतद्देवीं राजवाहन: सस्मितमवादीत् – पश्यत पारत-ल्पिकमुपधियुक्तमपि गुरुजनबन्धव्यसनमुक्तिहेतुतया दुष्टामित्र-
प्रमापणाभ्युपायतया राज्योपलब्धिमूलतया च पुष्कलावर्थधर्माव-
प्यरीरधत् । किं हि बुद्धिमत्प्रयुक्तं नाभ्युपैति शोभाम्' इति ।
अर्थपालमुखे निधाय स्निग्धदीर्घां दृष्टिम् 'आचष्टां भवानात्मीयच-रितम्' इत्यादिदेश । सोऽपि बद्धाञ्जलिरभिदधे-
 
इति श्रीदण्डिनः कृतौ दशकुमारचरित उपहारवर्मचरितं नाम तृतीय उच्छ्वासः
 
पदचन्द्रिका ।
 
देवस्वं राजवाहनः । निर्विशन्नुपभुञ्जन् । 'निर्वेशो भृतियोगयोः' इत्यमरः । चम्पाभियोगं चम्पोपद्रावणम् । अवगम्य ज्ञात्वा । अलघुना बहुतरेण । लघुसमुत्थानेन शीघ्रगामिना । 'लघु क्षिप्रमरं द्रुतम्' इत्यमरः । अभ्यसरं गतवान् । त्वत्पादलक्ष्मीस्त्वच्चरणशोभा तस्याः साक्षात्क्रिया प्रत्यक्षीकरणं स एव महोत्सवः । भूमिस्थानम् । अभवं जातः । पारतल्पिकं परस्त्रीगामिनम् । कर्तृ । उपधियुक्तं कपटयुक्तम् । गुरुजनः पितृजनः । व्यसनंं दुःखम् । प्रमापणं मारणम् । राज्योपलब्धी राज्यप्राप्तिः । पुष्कलौ बहुतरौ । अरीरधदसाधयत् । 'राध साध संसिद्धौ' । बुद्धिमत्प्रयुक्तं बुद्धिमता कृतम् । अर्थपालो दशकुमारेष्वन्यतमः । सोऽप्यर्थपालः । अभिदधे वक्तुमुपचक्रमे ॥
 
इति श्रीदशकुमारटीकायां पदचन्द्रिकाभिधायां तृतीय उच्छ्वास: ॥
 
भूषणा ।
 
प्रसाधितात्मोपयुक्तबुद्धिः । 'आत्मा यत्नो धृतिर्बुद्धिः' इत्यमरः । दुर्भगान्विरसान् । पारतल्पिकं परदारगामिनम् । 'तल्पं शय्याट्टदारेषु' इत्यमरः । अरीरधदसाधयत् । 'राध साध संसिद्धौ' ॥ इति श्रीदशकुमारटीकायां भूषणाभिधायां तृतीय उच्छ्वासः ॥
 
लघुदीपिका ।
 
विचारितः । आभिज्ञानिकमभिज्ञानम् । स्वार्थे ठक् । प्रत्यपादयन् । 'प्रदानं प्रतिपादनम्' इति वैजयन्ती । ददुरित्यर्थः ।प्रसाधितात्मोपयुक्तबुद्धिः । 'आत्मा यत्नो धृतिर्बुद्धि' ।दुर्भगान्विरसान् । पारतल्पिकं परतल्पगामिनम् । अरीरधदसाधयत् ॥ 'राध साध संसिद्धौ' ॥
इति लघुदीपिकाख्यटीकायां तृतीय उच्छ्वासः ॥