2023-09-04 17:36:12 by Lakshmainarayana achar

This page has been fully proofread twice.

हस्तास्त्यक्तात्मानो राष्ट्रं नः समृद्धमभिद्रवेयुः । अतो मुष्टिवधः
सस्यवधो वा यदोत्पद्यते तदाभियास्यसि, नाद्य यात्रा युक्ता'
इति । नगरवृद्धावप्यलापिषम् – 'अल्पीयसा मूल्येन महार्हं वस्तु
मास्तु मे लभ्यं धर्मरक्षायै, तदनुगुणेनैव मूल्येनादः क्रीयताम्'
इति । शतहलिं च राष्ट्रमुख्यमाहूयाख्यातवान्– 'योऽसावनन्त-
सीरः प्रहारवर्मणः पक्ष इति निनाशयिषितः, सोऽपि पितरि मे
प्रकृतिस्थे किमिति नाश्येत, तत्त्वयापि तस्मिन्संरम्भो न कार्य:'
इति । त इमे सर्वमाभिज्ञानिकमुपलभ्य ' स एवायम्' इति निश्चि-
न्वाना विस्मयमानाश्च मां महादेवीं च प्रशंसन्तो मन्त्रबलानि
चोद्घोषयन्तो बन्धनात्पितरौ निष्क्रामय्य स्वं राज्यं प्रत्यपादयन् ।
अहं च तया मे धात्र्या सर्वमिदं ममाचेष्टितं रहसि पित्रोरवगमय्य
प्रहर्षकाष्ठाधिरूढयोस्तयोः पादमूलमभजे । अभज्ये च यौवराज्य-
लक्ष्म्या तदनुज्ञातया । प्रसाधितात्मा देवपादविरहदुःखदुर्भ-
 
पदचन्द्रिका ।
 
समृद्धान्नाः । नोऽस्माकम् । समृद्धं सस्यादिसंपन्नम् । मुष्टिवधो बीजप्रक्षेपघातः । सस्यवधः परिणतधान्यच्छेदः । अभियास्यसि गमिष्यसि । नगरवृद्धौ पाञ्चालिकसार्थवाहौ । अल्पीयसाल्पतरेण । महार्हं बहुमूल्यम् । तदनुगुणेनैव वज्रानुकूलेनैव । मूल्येन क्रीयतां क्रयेण गृह्यताम् । पक्षः सहायः । 'पक्षः पार्श्वगरुत्साध्यसहायब-लभित्तिषु' इति वैजयन्ती । निनाशयिषितो नाशयितुमिष्टः । पितरि प्रहारवर्मणि । प्रकृतिस्थे स्वराज्यस्थिते । तस्मिन्ननन्तसीरनाशे । संरम्भ आदरः । आभिज्ञानिकमभिज्ञानकम् । स्वार्थे ठक् । महादेवीं राजपत्नीम् । उद्घोषयन्तः प्रकटयन्तः ।
स्वं राज्यं प्रत्यपादयन् । ददुरित्यर्थः । 'प्रदानं प्रतिपादनम्' इति वैजयन्ती । तथा धात्र्या वृद्धतापसीरूपया । प्रहर्षकाष्ठा संतोषमर्यादा । प्रसाधितात्मोपयुक्तबुद्धिः
 
भूषणा ।
 
इति वतिः । 'न सांप्रतं सुभिक्षाः पुण्ड्राः' इति पाठः । यानकालमाह याज्ञवल्क्यः - 'यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत्' इति । 'गुणैश्च जलेन्धनतृणादिभिः' इति विज्ञानेश्वरो व्याख्यातवान् । निनाशयिषितः नाशयितुं विचारितः । आभिज्ञानिकमभिज्ञानम् ।
स्वार्थे ठक् । प्रत्यपादयन् । 'प्रदानं प्रतिपादनम्' इति वैजयन्ती । ददुरित्यर्थः ।
 
लघुदीपिका ।
 
'दुर्भिक्षं दुःसनं (?) समे' इति भागुरिः । मुष्टिवधो बीजप्रक्षेपघातः । पक्षः सहायः । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति वैजयन्ती । निनाशयिषितो नाशयितुं