This page has not been fully proofread.

१६६
 
दशकुमारचरितम् ।
 
[ तृतीयः
 
हस्तास्यक्तात्मानो राष्ट्रं नः समृद्धमभिद्रवेयुः । अतो मुष्टिवधः
सस्यवधो वा यदोत्पद्यते तदाभियास्यसि, नाद्य यात्रा युक्ता'
इति । नगरवृद्धावप्यलापिषम् – 'अल्पीयसा मूल्येन महार्ह वस्तु
मास्तु मे लभ्यं धर्मरक्षायै, तदनुगुणेनैव मूल्येनादः क्रीयताम्'
इति । शतहलिं च राष्ट्रमुख्यमाहूयाख्यातवान्– 'योऽसावनन्त-
सीरः प्रहारवर्मणः पक्ष इति निनाशयिषितः, सोऽपि पितरि मे
प्रकृतिस्थे किमिति नाश्येत, तत्त्वयापि तस्मिन्संरम्भो न कार्य:'
इति । त इमे सर्वमाभिज्ञानिकमुपलभ्य ' स एवायम्' इति निश्चि-
न्वाना विस्मयमानाञ्च मां महादेवीं च प्रशंसन्तो मन्त्रबलानि
चोद्घोषयन्तो बन्धनात्पितरौ निष्क्रामय्य स्वं राज्यं प्रत्यपादयन् ।
अहं च तया मे धात्र्या सर्वमिदं ममाचेष्टितं रहसि पित्रोरवगमय्य
प्रहर्षकाष्ठाधिरूढयोस्तयोः पादमूलमभजे । अभज्ये च यौवराज्य-
लक्ष्म्या तद्नुज्ञातया । प्रसाधितात्मा देवपादविरहदुःखदुर्भ-
-
 
पदचन्द्रिका ।
 
m
 
समृद्धान्नाः । नोऽस्माकम् । समृद्धं सस्यादिसंपन्नम् । मुष्टिवधो बीजप्रक्षेपघातः । सस्य-
वधः परिणतधान्यच्छेदः । अभियास्यसि गमिष्यसि । नगरवृद्धौ पाञ्चालिकसार्थ-
वाही । अल्पीयसाल्पतरेण । महाई बहुमूल्यम् । तदनुगुणेनैव वज्रानुकूलेनैव ।
मूल्येन क्रीयतां क्रयेण गृह्यताम् । पक्षः सहायः । 'पक्षः पार्श्वगरुत्साध्यसहायब-
लभित्तिषु' इति वैजयन्ती । निनाशयिषितो नाशयितुमिष्टः । पितरि प्रहारवर्मणि ।
प्रकृतिस्थे स्वराज्यस्थिते । तस्मिन्ननन्तसीरनाशें । संरम्भ आदरः । आभिज्ञा-
निकमभिज्ञानकम् । स्वार्थे ठक् । महादेवीं राजपत्नीम् । उद्घोषयन्तः प्रकटयन्तः ।
स्वं राज्यं प्रत्यपादयन् । ददुरित्यर्थः । 'प्रदानं प्रतिपादनम्' इति वैजयन्ती । तथा
धात्र्या वृद्धतापसीरूपया । प्रहर्षकाष्ठा संतोषमर्यादा । प्रसाधितात्मोपयुक्तबुद्धिः
 
-
 
भूषणा ।
 
इति वतिः । 'न सांप्रतं सुभिक्षाः पुण्ड्राः' इति पाठः । यानकालमाह याज्ञवल्क्यः - 'यदा
सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत्' इति । 'गुणैश्च जलेन्धनतृणादिभिः' इति विज्ञाने-
श्वरो व्याख्यातवान् । निनाशयिषितः नाशयितुं विचारितः । आभिज्ञानिकमभिज्ञा-
खार्थे ठक् । प्रत्यपादयन् । 'प्रदानं प्रतिपादनम्' इति वैजयन्ती । ददुरित्यर्थः ।
लघुदीपिका ।
 
नम् ।
 

 
'दुर्भिक्षं दुःसन (?) समे' इति भागुरिः । मुष्टिवधो बीजप्रक्षेपघातः । पक्षः सहायः ।
'पक्षः पार्श्वगरुत्साभ्यसहायबलभित्तिषु' इति वैजयन्ती । निनाशयिषितो नाशयितुं