2023-09-04 17:36:19 by Lakshmainarayana achar
This page has been fully proofread twice.
गमत् । इत्थमिदमचिरप्रस्तुतं रहस्यम् ।' इत्याकर्ण्य तम् 'इयत्तवायुः । उपपद्यस्व स्वकर्मोचितां गतिम्' इति च्छुरिकया द्विधाकृत्य [^१]कृत्तमात्रं तस्मिन्नेव प्रवृत्तस्फीतसर्पिषि हिरण्यरेतस्यजूहवम् । अभूच्चासौ भस्मसात् । अथ स्त्रीस्वभावादीषद्विह्वलां हृदयवल्लभां समाश्वास्य हस्तकिसलयेऽवलम्ब्य गत्वा तद्ग्रहमनुज्ञयास्याः सर्वाण्य-न्तःपुराण्याहूय सद्य एव सेवां दत्तवान् । सविस्मितविलासिनी-
सार्थमध्ये कंचिद्विहृत्य कालं विसृष्टावरोधमण्डलस्तामेव संहतो-
रुमूरूपपीडं भुजोपपीडं चोपगृह्य तल्पेऽभिरमयन्नल्पामिव तां
निशामत्यनैषम् । अलभे च तन्मुखात्तद्राजकुलस्य शीलम् ।
उषसि स्नात्वा कृतमङ्गलो मन्त्रिभिः सह समगच्छे । तांश्चाब्रवम्-
'आर्या:, रूपेणैव सह परिवृत्तो मम स्वभावः । य एष
विषान्नेन हन्तुं चिन्तितः पिता मे स मुक्त्वा स्वमेतद्राज्यं भूय एव
ग्राहयितव्यः । पितृवदमुष्मिन्वयं शुश्रूषयैव वर्तामहे । न ह्यस्ति
पितृवधात्परं पातकम्' इति । भ्रातरं च विशालवर्माणमाहूयो-
क्तवान् – 'वत्स, न सुभिक्षाः सांप्रतं पुण्ड्राः । ते दुःखमोहोप-
पदचन्द्रिका ।
सेनापतिः । उद्धारकर्मणि निर्याणकर्मणि । नियोक्तुं नियोजयितुम् । अभ्युपागमत् । अचिरप्रस्तुतं शीघ्रप्रक्रान्तम् । आकर्ण्य श्रुत्वा । इयत्तवायुरेतावत्तवायुष्यम् । उपपद्यस्व प्राप्नुहि । भस्मसाद्रक्षावशेषः । 'विभाषा साति कार्ये (५।४।५२ ) इति
सातिप्रत्ययः । ईषद्विह्वलामल्पव्याकुलाम् । हस्तकिसलये पाणिपल्लवे । अवलम्ब्य धृत्वा । सविस्मितः साश्चर्यः । विलासिनीसार्थः स्त्रीसमूहः । विहृत्य क्रीडित्वा ।
विसृष्टावरोधमण्डलो विसर्जितान्तःपुरस्त्रीसमूहः । तामेव कल्पसुन्दरीमेव । ऊर्वोरुपपीडा यत्रेति क्रियाविशेषणम् । भुजोपपीडं च गाढालिङ्गनपूर्वकमिति भावः ।तन्मुखात्कल्पसुन्दरीमुखात् । शीलं स्वभावम् । उषसि प्रभाते । तान्मन्त्रिणः । आर्याः श्रेष्ठाः । परिवृत्तः परावृत्तिं प्राप्तः । ग्राहयितव्यः । यथा गृह्णाति तथा कार्यमित्यर्थः । अमुष्मिन्प्रहारवर्मणि । शुश्रूषया सेवया । वत्सेति संबोधनम् । सुभिक्षाः
भूषणा ।
साद्भस्मावशेषः । 'विभाषा साति कायें (५।४।५२) इति सातिः । ऊरूपपीडम् । 'सप्तम्यां चोप--' (३।४।४९) इति णमुल् । पितृवत्पितरीव । 'तत्र तस्येव' (५।१।११६)
लघुदीपिका ।
निर्याणकर्मणि । भस्मसाद्भस्मावशेषः । 'विभाषा साति कार्त्स्न्ये' (५।४।५२ ) इति सातिप्रत्ययः । पितृवत्पितुरिव । 'तत्र तस्येव' (५।१।११६ ) इति वत्प्रत्ययः ।
[^१]G. 'कृत्तगात्रम्',