2023-07-02 03:53:27 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । १६५
गमत् । इत्थमिदमचिरप्रस्तुतं रहस्यम् ।' इत्याकर्ण्य तम् 'इयत्तवायुः ।
उपपद्यस्व स्वकर्मोचितां गतिम्' इति च्छुरिकया द्विधाकृत्य [^१]कृत्त-
मात्रं तस्मिन्नेव प्रवृत्तस्फीतसर्पिषि हिरण्यरेतस्यजूहवम् । अभू-
च्चासौ भस्मसात् । अथ स्त्रीस्वभावादीषद्विह्वलां हृदयवल्लभां समा-
श्वास्य हस्तकिसलयेऽवलम्ब्य गत्वा तद्ब्ग्रहमनुज्ञयास्याः सर्वाण्य-
न्तःपुराण्याहूय सद्य एव सेवां दत्तवान् । सविस्मितविलासिनी-

सार्थमध्ये कंचिद्विहृत्य कालं विसृष्टावरोधमण्डलस्तामेव संहतो-

रुमूरूपपीडं भुजोपपीडं चोपगृह्य तल्पेऽभिरमयन्नल्पामिव तां

निशामत्यनैषम् । अलभे च तन्मुखात्तद्राजकुलस्य शीलम् ।

उषसि स्नात्वा कृतमङ्गलो मन्त्रिभिः सह समगच्छे । तांञ्श्चाब्रवम्-

'आर्या:, रूपेणैव सह परिवृत्तो मम स्वभावः । य एष

विषान्नेन हन्तुं चिन्तितः पिता मे स मुक्त्वा स्वमेतद्राज्यं भूय एव

ग्राहयितव्यः । पितृवद्मुष्मिन्वयं शुश्रूषयैव वर्तामहे । न ह्यस्ति

पितृवधात्परं पातकम्' इति । भ्रातरं च विशालवर्माणमाहूयो-

क्तवान् – 'वत्स, न सुभिक्षाः सांप्रतं पुण्ड्राः । ते दुःखमोहोप-

 
पदचन्द्रिका ।
 
,

 
सेनापतिः । उद्धारकर्मणि निर्याणकर्मणि । नियोक्तुं नियोजयितुम् । अभ्युपागमत् ।
अचिरप्रस्तुतं शीघ्रप्रक्रान्तम् । आकर्ण्य श्रुत्वा । इयत्तवायुरेतावत्तवायुष्यम् । उप-
पद्यस्त्र
पद्यस्व प्राप्नुहि । भस्मसाद्रक्षावशेषः । 'विभाषा साति कार्ये (५५२ ) इति

सातिप्रत्ययः । ईषद्विह्वलामल्पव्याकुलाम् । हस्तकिसलये पाणिपल्लवे । अवलम्ब्य
धृत्वा । सविस्मितः साश्चर्यः । विलासिनीसार्थः स्त्रीसमूहः । विहृत्य क्रीडित्वा ।

विसृष्टावरोधमण्डलो विसर्जितान्तः पुरस्त्रीसमूहः । तामेव कल्पसुन्दरीमेव । ऊर्वो-
रुपपीडा यत्रेति क्रियाविशेषणम् । भुजोपपीडं च गाढालिङ्गनपूर्वकमिति भावः ।
तन्मुखात्कल्पसुन्दरीमुखात् । शीलं स्वभावम् । उसि प्रभाते । तान्मन्त्रिणः ।
आर्याः श्रेष्ठाः । परिवृत्तः परावृत्तिं प्राप्तः । ग्राहयितव्यः । यथा गृह्णाति तथा कार्य-
मित्यर्थः । अमुष्मिन्प्रहारवर्मणि । शुश्रूषया सेवया । वत्सेति संबोधनम् । सुभिक्षाः

 
भूषणा ।
 

 
साद्भस्मावशेषः । 'विभाषा साति कायें (५५२) इति सातिः । ऊरूपपीडम् ।
'सप्तम्यां चोप-~-~' (३।४।४९) इति णमुल् । पितृवत्पितरीव । 'तत्र तस्येव' (५११६)

 
लघुदीपिका ।
 

 
निर्याणकर्मणि । भस्मसाद्भस्मावशेषः । 'विभाषा साति कार्त्स्न्ये' (५५२ ) इति
सातिप्रत्ययः । पितृवत्पितुरिव । 'तत्र तस्येव' (५११११६ ) इति वत्प्रत्ययः ।
पाठा०-

 
[^
]G. 'कृत्तगात्रम्',