2023-09-04 17:36:27 by Lakshmainarayana achar

This page has been fully proofread twice.

येयम्' इति । स तदैव – 'देव्येवेयम्, नोपधिः' इति स्फुटोपजात-
संप्रत्ययः प्रावर्तत शपथाय । स्मित्वा पुनर्मयोक्तम् – 'किं वा
शपथेन । कैव हि मानुषी मां परिभविष्यति । यद्यप्सरोभिः
संगच्छसे, संगच्छस्व कामम् । कथय कानि ते रहस्यानि ।
तत्कथनान्ते हि त्वत्स्वरूपभ्रंशः' इति । सोऽब्रवीत् – 'अस्ति
बद्धो मत्पितुः कनीयान्भ्राता प्रहारवर्मा । तं विषान्नेन व्यापाद्या-
जीर्णदोषं ख्यापयेयमिति मन्त्रिभिः सहाध्यवसितम् । अनुजाय
विशालवर्मणे दण्डचक्रं [^१]पुण्ड्रदेशाभिक्रमणाय दित्सितम् । पौरवृद्धश्च पाञ्चालिकः परित्रातश्च सार्थवाहः खनातिनाम्नो यवनाद्व-
ज्रमेकं वसुंधरामूल्यं लघीयसार्घेण लभ्यमिति ममैकान्तेऽमन्त्र-
येताम् । गृहपतिश्च ममान्तरङ्गभूतो जनपदमहत्तरः शतहलिर-
लीकवादशीलमवलेपवन्तं दुष्टग्रामण्यमनन्तसीरं जनपदकोपेन
घातयेयमिति दण्डधरानुद्धारकर्मणि मत्प्रयोगान्नियोक्तुमभ्युपा-
 
पदचन्द्रिका ।
 
क्रीडयिष्यसि । संक्रामयेयं योजयेयम् । देव्येवेयं राज्ञ्येवेयम् । उपधिः कपटम् । उपजातसंप्रत्ययः प्राप्तविश्वासः । स्मित्वेषद्धास्यं कृत्वा । मानुषी मनुष्यस्त्री परिभविष्यति पराभवं करिष्यति । कामं यथेष्टम् । रहस्यानि गोप्यानि । विषान्नेन विषसंवृतान्नेन । व्यापाद्य मारयित्वा । अजीर्णदोषं विषूचिकाम् । अध्यवसितं निश्चितीकृतम् । दण्डचक्रं सेनाचक्रम् । 'दण्डो यमे मानभेदे लगुडे दमसैन्ययोः'इति विश्वः । पुण्ड्रदेशाभिक्रमणाय तद्देशग्रहणाय । दित्सितं दातुमभिलषितम् । पाञ्चालिकस्तन्नामा । परित्रातो रक्षितः । सार्थवाहस्तन्नामा । वज्रं हीरकम् । वसुंधरामूल्यं पृथ्वीमूल्यम् । अमन्त्रयेतां कथयेताम् । गृहपतिर्ग्रामाध्यक्षः। 'ग्रामाध्यक्षो गृहपतिः' इति कोशः । अन्तरङ्गभूत आत्मभूतः । जनपदमहत्तरो देशश्रेष्ठः । 'नीवृज्जनपदो देशविषयौ तूपवर्तनम्' इत्यमरः । शतहलिः शतं हला यस्येति तथा । अलीकवादशीलं मिथ्याभाषणस्वभावम् । अवलेपवन्तं सगर्वम् । दुष्टं ग्रामण्यं यस्येति तम् । अनन्त-सीरमेतन्नामकम् । जनपदकोपेन लोकक्रोधेन । घातयेयं मारयिष्ये । दण्डधरः
 
भूषणा ।
 
रहोगतम् ॥ विषाक्तेन च सौवीरं मेखलामणिना नृपम् । नूपुरेण च वैरन्त्यं जारूषं दर्पणेन च ॥ वेण्यां शस्त्रं समाधाय तथैव च विदूरथम् । अहिवृत्तं परिहरेच्छत्रौ चापि प्रयोजयेत् ॥" इति । व्यापाद्य हत्वा । पुण्ड्रा देशविशेषाः । गृहपतिमाध्यक्षः । दण्डधरः सेनापतिः । उद्धारकर्मणि निर्याणकर्मणि । भस्म-
 
लघुदीपिका ।
 
पुण्ड्रा देशविशेषाः । ग्रामाध्यक्षो गृहपतिः । दण्डधरः सेनापतिः । उद्धारकर्मणि
 
[^१]G. 'पुण्ड्राभियोगाय'.