2023-07-01 14:33:51 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
तुभ्यमेषा जाया । पुनरपीमं जातवेदसं साक्षीकृत्य स्वहृदयेन दत्ता'
इति [^१]प्रपदेन चरणपृष्ठे- निष्पीड्योत्क्षिप्तपादपार्ष्णिरितरेतरव्यतिषक्तकोमलाङ्गुलिदलेन न भुजलताद्वयेन कंधरां ममावेष्ट्य सलीलमाननमानमय्य स्वयमुन्नमितमुखकमला विभ्रान्तविशालदृष्टिरसकृदभ्यचुम्बत् ।
अथैनाम् – 'इहैव कुरण्टकगुल्मगर्भे तिष्ठ यावदहं निर्गत्य
साधयेयं साध्यं सम्यक्' इति विसृज्य तामुपसृत्य होमानल-प्रदेशमशोकशाखावलम्बिनीं घण्टामचालयम् । अकूजच्च सा
तं जनं कृतान्तदूतीवाह्वयन्ती । प्रावर्तिषि चाहमगुरुचन्दन-प्रमुखानि होतुम् । अयासीच्च राजा यथोक्तं देशम् । शङ्काप-
न्नमिव किंचित्सविस्मयं विचार्य तिष्ठन्तमत्रब्रवम् – 'ब्रूहि सत्यं
भूयोऽपि मे भगवन्तं चित्रभानुमेव साक्षीकृत्य । न चेदनेन रूपेण मत्सपत्नीरभिरमयिष्यसि, ततस्त्वयीदं रूपं संक्राम-
पदचन्द्रिका ।
नूनपात्' इत्यमरः । प्रपदं पादाग्रम् । 'पादाग्रं प्रपदम्' इत्यमरः । इतरेतरं परस्परम् । व्यतिषक्तं मिलितम् । कंधरां ग्रीवाम् । 'शिरोधिः कंधरेत्यपि' इत्यमरः ॥
अथेति । कुरण्टकाः पीतकुरबकाः । 'तत्र शोणे कुरबकस्तत्र पीते कुरण्टकः' इत्यमरः । तेषां गुल्मः स्तम्बः । 'अप्रकाण्डे स्तम्बगुल्मौ इत्यमरः । साध्यं कार्यम् ।अशोकशाखावलम्बिनीमशोकस्कन्धबद्धाम् । अचालयं चालितवानस्मि । सा घण्टा । तं जनं विकटवर्मरूपम् । कृतान्तदूतीव यमदूतीव । प्रावर्तिषि प्रवृत्तोऽभवम् । अयासीदागतवान् । शङ्कापन्नमिव प्राप्तसंशयमिव । तिष्ठन्तं विकटवर्माणम् । चित्रभानुमग्निम् । 'चित्रभानुर्विभावसुः' इत्यमरः । अभिरमयिष्यसि
भूषणा ।
न्तपस्त्यसदनम्' इत्यमरः । पादाग्रं प्रपदम् । एवमेवामरः । पादोत्क्षेपणादेव पार्ष्ण्युत्क्षेपेऽपि गोबलीवर्दन्यायात्पृथगुक्तिः । 'तद्ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिरधो द्वयोः' इत्यमरः । प्रमदवनशृङ्गाटिकायाम् । अत्र कामन्दकः - 'न हि देवीगृहं गच्छेदात्मीयात्संनिवेशनात् । अत्यन्तवल्लभोsपीह विश्वासं स्त्रीषु न व्रजेत् । देवीगृहगतं भ्राता भद्रसेनममारयत् । मातुः शय्यान्तरे लीनः कारूषं चौरसः सुतः । लाजान्विषेण संयोज्य मधुनेति विलोभितम् । देवी तु काशिराजेन्द्रं निजघान
लघुदीपिका ।
'पादाग्रं प्रपदं प्रोक्तं व्यतिषक्तं करम्बितम्' । निचाय्य दृष्ट्वा । व्यापाद्य हत्वा ।
[^१]G. 'पादाग्रेण'.