This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका - भूषणा-लघुदीपिकासहितम् । १६३
तुभ्यमेषा जाया । पुनरपीमं जातवेदसं साक्षीकृत्य स्वहृदयेन दत्ता'
इति प्रपदेन चरणपृष्ठे निष्पीड्योत्क्षिप्तपादपाष्णिरितरेतरव्यतिष-
क्तकोमलाङ्गुलिद्लेन भुजलताद्वयेन कंधरां ममावेष्ट्य सलील-
माननमानमय्य स्वयमुन्नमितमुखकमला विभ्रान्तविशालदृष्टिर-
सकृदभ्यचुम्बत् ।
 
अथैनाम् – 'इहैव कुरण्टकगुल्मगर्भे तिष्ठ यावदहं निर्गत्य
साधयेयं साध्यं सम्यक् इति विसृज्य तामुपसृत्य होमानल-
प्रदेशमशोकशाखावलम्बिनीं घण्टामचालयम् । अकूजच्च सा
तं जनं कृतान्तदूतीवाह्वयन्ती । प्रावर्तिषि चाहमगुरुचन्दन-
प्रमुखानि होतुम् । अयासीच राजा यथोक्तं देशम् । शङ्काप-
न्नमिव किंचित्सविस्मयं विचार्य तिष्ठन्तमत्रवम् – 'ब्रूहि सत्यं
भूयोऽपि मे भगवन्तं चित्रभानुमेव साक्षीकृत्य । न चेद-
नेन रूपेण मत्सपत्नीरभिरमयिष्यसि ततस्त्वयीदं रूपं संक्राम-
पदचन्द्रिका ।
 

 
नूनपात्' इत्यमरः । प्रपदं पादाग्रम् । 'पादामं प्रपदम्' इत्यमरः । इतरेतरं पर-
स्परम् । व्यतिषतं मिलितम् । कंधरां ग्रीवाम् । 'शिरोधिः कंधरेत्यपि' इत्यमरः ॥
 
अथेति । कुरण्टकाः पीतकुरबकाः । 'तत्र शोणे कुरबकस्तत्र पीते कुर-
ण्टकः' इत्यमरः । तेषां गुल्मः स्तम्बः । 'अप्रकाण्डे स्तम्बगुल्मौ इत्यमरः । साध्यं
कार्यम् । अशोकशाखावलम्बिनीमशोकस्कन्धबद्धाम् । अचालयं चालितवानस्मि ।
सा घण्टा । तं जनं विकटवर्मरूपम् । कृतान्तदूतीव यमदूतीव । प्रावर्तिषि प्रवृ-
त्तोऽभवम् । अयासीदागतवान् । शङ्कापन्नमिव प्राप्तसंशयमिव । तिष्ठन्तं विकट-
वर्माणम् । चित्रभानुमग्निम् । 'चित्रभानुर्विभावसुः' इत्यमरः । अभिरमयिष्यसि
 
भूषणा ।
 
न्तपस्त्यसदनम्' इत्यमरः । पादाग्रं प्रपदम् । एवमेवामरः । पादोत्क्षेपणादेव
पार्व्युत्क्षेपेऽपि गोबलीवर्दन्यायात्पृथगुक्तिः । 'तद्वन्धी घुटिके गुल्फौ पुमान्पा-
ष्णिरधो द्वयोः' इत्यमरः । प्रमदवनशृङ्गाटिकायाम् । अत्र कामन्दकः - 'न हि
देवीगृहं गच्छेदात्मीयात्संनिवेशनात् । अत्यन्तवल्लभोsपीह विश्वासं स्त्रीषु न व्रजेत् ।
देवीगृहगतं भ्राता भद्रसेनममारयत् । मातुः शय्यान्तरे लीनः कारूषं चौरसः सुतः ।
लाजान्विषेण संयोज्य मधुनेति विलोभितम् । देवी तु काशिराजेन्द्रं निजघान
 
,
 
'मादामं प्रपदं प्रोक्तं व्यतिषक्तं
 
पाठा० - १ 'पादाग्रेण'.
 
लघुदीपिका ।
 
करम्बितम्' । निचाय्य दृष्ट्वा । व्यापाय हत्वा ।