2023-09-04 17:36:45 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

गौरसर्षपवसामांसरुधिराहुतीनां च परिमलः पवनानुसारी दिशि
दिशि प्रावात्सीत् । प्रशान्ते च सहसा धूमोद्गमे तस्मिन्नहमवि-
शम् । निशान्तोद्यानमगाच्च गजगामिनी । आलिङ्ग्य च मां
सस्मितं समभ्यधत्त– 'धूर्त, सिद्धं ते समीहितम् । अवसितश्च
पशुरसौ । अमुष्य प्रलोभनाय त्वदादिष्टया दिशा मयोक्तम्-
'कितव न साधयामि ते सौन्दर्यम् । एवं सुन्दरो हि त्वमप्स -
रसामपि स्पृहणीयो भविष्यसि, किमुत मानुषीणाम् । मधुकर
इव निसर्गचपलो यत्र क्वचिदासज्जति भवादृशो नृशंसः' इति ।
तेन तु मे पादयोर्निपत्यामिहितम् – 'रम्भोरु, सहस्व मत्कृतानि
दुश्चरितानि । मनसापि न चिन्तयेयमितः परमितरनारीम् ।
त्वरस्व प्रस्तुते कर्मणि' इति । तदहमीदृशेन वैवाहिकेन नेपथ्येन
त्वामभिसृतवती । प्रागपि रागाग्निसाक्षिकमनङ्गेन गुरुणा दत्तैव
 
पदचन्द्रिका ।
 
सर्षपा: सिद्धार्थाः । 'सिद्धार्थस्त्वेष धवलः' इत्यमरः । वसा वपा । 'हृन्मेदस्तु वपा वसा' इत्यमरः । मांसं पललम् । 'पिशितं तरसं मांसं पललं क्रव्यमामिषम्' इत्यमरः । रुधिरं रक्तम् । परिमलो गन्धः । पवनानुसारी यथावायुगामी । दिशि दिशि प्रतिदिशम् । प्रावात्सीत् । आगच्छदित्यर्थः । प्रशान्ते विनष्टे । निशान्तोद्यानं गृहोपवनम् । 'निशान्तपस्त्यसदनम्' इत्यमरः । समभ्यधत्त । उवाचेत्यर्थः । धूर्तेति संबोधनम् । समीहितमीप्सितम् ।अवसितोऽवसानं प्राप्तः । अमुष्य प्रलोभनाय विक-
टवर्मप्रलोभनार्थम् । त्वदादिष्टया दिशा । त्वदादिष्टेन मार्गेणेत्यर्थः । कितवेति । स्पृहणीयोऽभिलषणीयः । मानुषीणां मनुष्यस्त्रीणाम् । मधुकर इव भ्रमरवत् । चपलवबलः । यत्र क्वचिद्यत्रकुत्रापि । आसज्जत्यासक्तो भवति । भवादृशस्त्वत्सदृशः । नृशंसः क्रूरः । तेन विकटवर्मणा । अभिहितमुक्तम् । सहस्व । 'षह मर्षणे' ।
आत्मनेपदम् । मत्कृतानि मयाचरितानि । मे मनसापि । इतरनारीमन्यनायिकाम् । त्वरस्व त्वरां कुरु । प्रस्तुत उपक्रान्ते । वैवाहिकेन विवाहसंबन्धिना । नेपथ्येन वेषेण । रागाग्निरिच्छाग्निः । अनङ्गेन मदनेन । जातवेदसमग्निम् । 'जातवेदास्त-
 
भूषणा ।
 
धूर्तस्तु वञ्चकः' इत्यमरः । उदैरयदुदगमत् । निशान्तोद्यानं गृहोद्यानम् । 'निशा-
 
लघुदीपिका ।
 
उदैरयदुदगमम् । निशान्तोद्यानम् । 'निशान्तपस्त्यसदनं भवनागारमन्दिरम्' ।