2023-07-01 14:15:08 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दशकुमारचरितम् ।
 
[ तृतीयः
 
गौरसर्षपवसामांसरुधिराहुतीनां च परिमलः पवनानुसारी दिशि

दिशि प्रावात्सीत् । प्रशान्ते च सहसा धूमोद्गमे तस्मिन्नहमवि-

शम् । निशान्तोद्यानमगाञ्च्च गजगामिनी । आलिङ्ग्य च मां

सस्मितं समभ्यधत्त
– 'धूर्त, सिद्धं ते समीहितम् । अवसितश्च

पशुरसौ । अमुष्य प्रलोभनाय त्वदादिष्टया दिशा मयोक्तम्-

'कितव न साधयामि ते सौन्दर्यम् । एवं सुन्दरो हि त्वमप्स -

रसामपि स्पृहणीयो भविष्यसि, किमुत मानुषीणाम् । मधुकर

इव निसर्गचपलो यत्र क्वचिदासज्जति भवादृशो नृशंसः' इति ।

तेन तु मे पादयोर्निपत्यामिहितम् – 'रम्भोरु, सहस्व मत्कृतानि

दुञ्श्चरितानि । मनसापि न चिन्तयेयमितः परमितरनारीम् ।
त्वरख

त्वरस्व
प्रस्तुते कर्मणि' इति । तद्हमीदृशेन वैवाहिकेन नेपथ्येन

त्वामभिसृतवती । प्रागपि रागाग्निसाक्षिकमनङ्गेन गुरुणा दत्तैव
 
१६२
 

 
पदचन्द्रिका ।
 
सर्वपाः

 
सर्षपा:
सिद्धार्थाः । 'सिद्धार्थस्त्वेष धवलः' इत्यमरः । वसा वपा । 'हृन्मेदस्तु वपा
वसा' इत्यमरः । मांसं पललम् । 'पिशितं तरसं मांसं पललं क्रव्यमामिषम्' इत्यमरः ।
रुधिरं रक्तम् । परिमलो गन्धः । पवनानुसारी यथावायुगामी । दिशि दिशि प्रति-
दिशम् । प्रावात्सीत् । आगच्छदित्यर्थः । प्रशान्ते विनष्टे । निशान्तोद्यानं गृहोप-
वनम् । 'निशान्तपस्त्यसदनम्' इत्यमरः । समभ्यधत्त । उवाचेत्यर्थः । धूर्तेति संबो-
धनम् । समीहितमीप्सितम् । अवसितोऽवसानं प्राप्तः । अमुष्य प्रलोभनाय विक-

टवर्मप्रलोभनार्थम् । त्वदादिष्टया दिशा । त्वदादिष्टेन मार्गेणेत्यर्थः । कितवेति ।
स्पृहणीयोऽभिलषणीयः । मानुषीणां मनुष्यस्त्रीणाम् । मधुकर इव भ्रमरवत् । चप-
लवबलः । यत्र क्वचिद्यत्रकुत्रापि । आसज्जत्यासक्तो भवति । भवादृशस्त्वत्सदृशः ।
नृशंसः क्रूरः । तेन विकटवर्मणा । अभिहितमुक्तम् । सहस्व । 'षह मर्षणे' ।

आत्मनेपदम् । मत्कृतानि मयाचरितानि । मे मनसापि । इतरनारीमन्यनायिकाम् ।
वरख
त्वरस्व त्वरां कुरु । प्रस्तुत उपक्रान्ते । वैवाहिकेन विवाहसंबन्धिना । नेपथ्येन
वेषेण । रागाग्निरिच्छाग्निः । अनङ्गेन मदनेन । जातवेदसमग्निम् । 'जातवेदास्त-

 
भूषणा ।
 

 
धूर्तस्तु वञ्चकः' इत्यमरः । उदैरयदुदगमत् । निशान्तोद्यानं गृहोद्यानम् । 'निशा-

 
लघुदीपिका ।
 

 
उदैरयदुदगमम् । निशान्तोद्यानम् । 'निशान्तपस्त्यसदनं भवनागारमन्दिरम्' ।