2023-09-04 17:36:53 by Lakshmainarayana achar

This page has been fully proofread twice.

महमेव ज्ञास्यामि । मत्पदचिह्नानि चोपवने पुष्करिकया प्रमा-
र्जय' इति । सा 'तथा' इति शास्त्रोपदेशमिव मदुक्तमादृत्यातृप्त-
सुरतरागैव कथंकथमप्यगादन्तःपुरम् । अहमपि यथाप्रवेशं
निर्गत्य स्वमेवावासमयासिषम् ।
अथ सा मत्तकाशिनी तथा तमर्थमन्वतिष्ठत् । अतिष्ठच्च
तन्मते स दुर्मतिः । अभ्रमच्च पौरजानपदेष्वियमद्भुतायमाना
वार्ता – 'राजा किल विकटवर्मा देवीमन्त्रबलेन देवयोग्यं वपु-
रासादयिष्यति । नूनमेष विप्रलम्भो नातिकल्याणः । कैव कथा
प्रमादस्य । स्वस्मिन्नेवान्तःपुरोपवने स्वाग्रमहिष्यैव संपाद्यः
किलायमर्थः । तथा हि बृहस्पतिप्रतिमबुद्धिभि-[^१]र्मन्त्रिभिरप्यभ्यूह्यानुमतः । यद्येवं भावि नान्यदतः परमस्ति किंचिदद्भुतम् । अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः' इति प्रसृतेषु लोकप्रवादेषु प्राप्ते पर्वदिवसे, प्रगाढायां प्रौढतमसि प्रदोषवेलायामन्तःपुरोद्यानादुदैरयद्धूर्जटिकण्ठधूम्रो धूमोद्गमः । क्षीराज्यदधितिल-
 
पदचन्द्रिका ।
 
विशेषोत्पादनम् । स विकटवर्मा । तत इति । ज्ञास्यामि जानामि । प्रमार्जय प्रोञ्छ । अतृप्तसुरतरागैवासंपूर्णसुरतेच्छा । कथंकथमपि महता प्रबन्धेन । आवासं वसतिस्थानम् । अयासिषं प्रापम् ।
अथेति । मत्तकाशिन्युत्तमाङ्गना । 'वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी' इत्यमरः । तमर्थं तदुपदिष्टं प्रयोजनम् । अन्वतिष्ठत् । अकरोदित्यर्थः । स दुर्मतिर्विकटवर्मा । पौरजानपदेषु नागरिकलोकसंघेषु । अद्भुतायमानाश्चर्यायमाणा । वार्ता प्रवृत्तिः । देवी पट्टराज्ञी । 'देवी कृताभिषेकायाम्' इत्यमरः ।
मन्त्रबलेन मन्त्रसामर्थ्येन । देवयोग्यं देवार्हम् । नातिकल्याणो नातिशुभः । स्वाग्रमहिषी । 'कृताभिषेका महिषी' इत्यमरः । तथा हीति । बृहस्पतिप्रतिमा गुरुसमाना बुद्धिर्येषामिति तैः । मन्त्रिभिः प्रधानैः। अभ्यूह्य वितर्क्य । अनुमतोऽनुमोदितः । भावि भविष्यत् । अतःपरमेतदधिकम् । प्रसृतेष्वितस्ततो गतेषु । लोकप्रवादेषु जनवार्तासु । प्राप्ते पर्वदिवसेऽमावास्यायाम् । प्रौढतमसि गाढतमसि । अन्तःपुरस्योद्यानमुपवनम् । उदैरयदुदगमत् ।
धूर्जटिर्महादेवस्तस्य कण्ठस्तद्वद्धूम्रः कृष्णलोहितः । 'धूम्रधूमलौ कृष्णलोहिते' इत्यमरः । धूमोद्गमो धूमप्रारम्भः । क्षीरं दुग्धम् । 'दुग्धं क्षीरं पयः समम्' इत्यमरः । आज्यं घृतम् । 'घृतमाज्यं हविः सर्पिः' इत्यमरः । दधि प्रसिद्धम् । तिलाश्चागौर-
 
[^१]G.'अभूदनुमतः',