2023-07-01 14:04:19 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
र्जय' इति । सा 'तथा' इति शास्त्रोपदेशमिव मदुक्तमा
सुरतरागैव कथंकथमप्यगादन्तःपुरम् । अहमपि यथाप्रवेशं
निर्गत्य स्वमेवावासमयासिषम् ।
अथ सा मत्तकाशिनी तथा तमर्थमन्वतिष्ठत् । अतिष्ठच्च
तन्मते स दुर्मतिः । अभ्रमच्च पौरजानपदेष्वियमद्भुतायमाना
वार्ता – 'राजा किल विकटवर्मा देवीमन्त्रबलेन देवयोग्यं वपु-
रासादयिष्यति । नूनमेष विप्रलम्भो नातिकल्याणः । कैव कथा
प्रमादस्य । स्वस्मिन्नेवान्तः
किलायमर्थः । तथा हि बृहस्पतिप्रतिमबुद्धिभि
पदचन्द्रिका ।
विशेषोत्पादनम् । स विकटवर्मा । तत इति । ज्ञास्यामि जानामि । प्रमार्जय
1
अथेति । मत्तकाशिन्युत्तमाङ्गना । 'वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी
मन्त्रबलेन मन्त्रसामर्थ्येन । देवयोग्यं देवार्हम् । नातिकल्याणो नातिशुभः ।
खाप्
धूर्जटिर्
पाठा०-1
[^१]G.'अभूदनुमतः',