This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । १६१
महमेव ज्ञास्यामि । मत्पदचिह्नानि चोपवने पुष्करिकया प्रमा-
र्जय' इति । सा 'तथा' इति शास्त्रोपदेशमिव मदुक्तमाहत्यातृप्त-
सुरतरागैव कथंकथमप्यगादन्तःपुरम् । अहमपि यथाप्रवेशं
निर्गत्य स्वमेवावासमयासिषम् ।
 
अथ सा मत्तकाशिनी तथा तमर्थमन्वतिष्ठत् । अतिष्ठच
तन्मते स दुर्मतिः । अभ्रमच्च पौरजानपदेष्वियमद्भुतायमाना
वार्ता – 'राजा किल विकटवर्मा देवीमत्रबलेन देवयोग्यं वपु-
रासादयिष्यति । नूनमेष विप्रलम्भो नातिकल्याणः । कैव कथा
प्रमादस्य । स्वस्मिन्नेवान्तः पुरोपवने स्वाप्रमहिष्यैव संपाद्यः
किलायमर्थः । तथा हि बृहस्पतिप्रतिमबुद्धिभिर्मत्रिंभिरप्यभ्यूह्यानु-
मतः । यद्येवं भावि नान्यदतः परमस्ति किंचिद्भुतम् ।
अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः' इति प्रसृतेषु लोकप्रवा-
देषु प्राप्ते पर्वदिवसे, प्रगाढायां प्रौढतमसि प्रदोषवेलायामन्तः-
पुरोधानादुदैरयद्धूर्जटिकण्ठधूम्रो धूमोनमः । क्षीराज्यद्धितिल-
पदचन्द्रिका ।
 
विशेषोत्पादनम् । स विकटवर्मा । तत इति । ज्ञास्यामि जानामि । प्रमार्जय
प्रोञ्छ । अतृप्तसुरतरागैवासंपूर्णसुरतेच्छा । कथंकथमपि महता प्रबन्धेन । आवासं
वसतिस्थानम् । अयासिषं प्रापम् ।
 
1
 
अथेति । मत्तकाशिन्युत्तमाङ्गना । 'वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी
इत्यमरः । तमर्थ तदुपदिष्टं प्रयोजनम् । अन्वतिष्ठत् । अकरोदित्यर्थः । स
दुर्मतिर्विकटवर्मा । पौरजानपदेषु नागरिकलोकसंघेषु । अद्भुतायमानाश्चर्याय-
माणा । वार्ता प्रवृत्तिः । देवी पट्टराज्ञी । ' देवी कृताभिषेकायाम्' इत्यमरः ।
मन्त्रबलेन मन्त्रसामर्थ्येन । देवयोग्यं देवार्हम् । नातिकल्याणो नातिशुभः ।
खाप्रमहिषी । 'कृताभिषेका महिषी' इत्यमरः । तथा हीति । बृहस्पति-
प्रतिमा गुरुसमाना बुद्धिर्येषामिति तैः । मन्त्रिभिः प्रधानैः 4 अभ्यूय
वितर्क्य । अनुमतोऽनुमोदितः । भावि भविष्यत् । अतःपरमेतदधिकम् ।
प्रसृतेष्वितस्ततो गतेषु । लोकप्रवादेषु जनवार्तासु । प्राप्ते पर्वदिवसेऽमावास्या-
याम् । प्रौढतमसि गाढतमसि । अन्तःपुरस्योद्यानमुपवनम् । उदैरयदुदगमत् ।
धूर्जटिर्मंहादेवस्तस्य कण्ठस्तद्वडूम्रः कृष्णलोहितः । 'धूम्रधूमलौ कृष्णलोहिते' इत्य-
मरः । धूमोद्गमो धूमप्रारम्भः । क्षीरं दुग्धम् । 'दुग्धं क्षीरं पयः समम्' इत्यमरः ।
आज्यं घृतम् । 'घृतमाज्यं हविः सर्पिः' इत्यमरः । दधि प्रसिद्धम् । तिलाश्चागौर-
पाठा०-1 'अभूदनुमतः',