2023-09-04 17:37:03 by Lakshmainarayana achar

This page has been fully proofread twice.

तवाभिमतं सह सुहृन्मन्त्रिभिरनुजैः पौरजानपदैश्च [^१]संप्रधार्य
तेषामप्यनुमते कर्मण्यभिमुखेन स्थेयम्' इति । स नियतमभ्युपै-
ष्यति । पुनरस्यामेव प्रमदवन [^२]वाटीशृङ्गाटिकायामाथर्वणिकेन
विधिना संज्ञपितपशुनाभिहुत्य मुक्ते हिरण्यरेतसि [^३]तद्धूमशमनेन संप्रविष्टेन मयास्मिन्नेव लतामण्डपे स्थातव्यम् । त्वं पुनः प्रगाढायां प्रदोषवेलायामालपिष्यसि कर्णे कृतनर्मस्मिता विकटवर्माणम् – 'धूर्तोऽसि त्वमकृतज्ञश्च । मदनुप्रहलब्धेनापि रूपेण लोकलोचनोत्सवायमानेन मत्सपत्नीरभिरमयिष्यसि । नाहमात्मविनाशाय वेतालोत्थापनमाचरेयम्' इति । श्रुत्वेदं त्वद्वचः स यद्वदिष्यति तन्मह्यमेकाकिन्युपागत्य निवेदयिष्यसि । ततः पर-
 
पदचन्द्रिका ।
 
अभिमतं संमतम् । सुहृद्भिर्बान्धवैः । मन्त्रिभिः प्रधानैः । अनुजैः कनिष्ठभ्रातृभिः । संप्रधार्य निश्चित्य । 'निर्णयः संप्रधारणम् । तेषां पूर्वोक्तानाम् । अनुमते संमते । कर्मणि कार्ये ।शृङ्गाटिकायामल्पचतुष्पथे । 'शृङ्गाटकचतुष्पथे' इत्यमरः ।
आथर्वणिकेन पुरोहितेन संज्ञपितो मारितो यः पशुस्तेन । 'संज्ञपितं विशसितं समालब्धम्' इति वररुचिः । अभिहुत्य हुत्वा हिरण्यरेतस्यग्नौ । 'हिरण्यरेता हुतभुग्दहनः' इत्यमरः । त्वं पुनरिति । प्रगाढायामतिदृढायाम् । 'गाढबाढदृढानि च' इत्यमरः । प्रदोषवेलायां रजनीमुखसमये । आलपिष्यसि वदिष्यसि । कृतं
नर्मस्मितं परिहासहसितं ययेति सा । 'द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च' इत्यमरः । धूर्तो वञ्चकः । 'पापो धूर्तस्तु वञ्चकः' इत्यमरः । अकृतज्ञः कृतज्ञतारहितः । मदनुग्रहलब्धेन मत्प्रसाद- प्राप्तेन । लोकलोचनानां लोकनेत्राणामुत्सववदाचरतीति तथा तेन । आत्मविनाशाय स्वमरणाय । वेतालोत्थापनं भूत-
 
भूषणा ।
 
थाभावः' इति वैजयन्ती । संप्रधार्य । शृङ्गाटिकायां चतुष्पथे । 'शृङ्गाटकचतुष्पथे' इत्यमरः । संज्ञपितं विशसितम् । नर्मस्मितं परिहासस्मितम् । 'द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च' इत्यमरः । धूर्तो वञ्चकः । 'पापो
 
लघुदीपिका ।
 
'विसंवादोऽन्यथाभावः' इति वैजयन्ती । संप्रधार्य निर्णीय । 'निर्णयः संप्रधारणम्' । शृङ्गाटिका । 'शृङ्गाटकचतुष्पथे' । 'संज्ञपितं विशसितं समालब्धम्' । नर्मस्मितं परिहाससितम् । 'द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च' । 'पापो धूर्तस्तु वञ्चकः'
 
[^१]G. 'संमन्त्र्य'.
[^२]G. 'वीथि'.
[^३]G. 'धूमपटेन सह .