This page has not been fully proofread.

१६०
 
दशकुमारचरितम् ।
 
[ तृतीयः
तवाभिमतं सह सुहृन्मन्त्रिभिरनुजैः पौरजानपदैश्च संप्रेधार्य
तेषामध्यनुमते कर्मण्यभिमुखेन स्थेयम्' इति । स नियतमभ्युपै-
व्यति । पुनरस्यामेव प्रमदवनवोटीशृङ्गाटिकायामाथर्वणिकेन
विधिना संज्ञपितपशुनाभिहुत्य मुक्ते हिरण्यरेतसि तंदूमशमनेन
संप्रविष्टेन मयास्मिन्नेव लतामण्डपे स्थातव्यम् । त्वं पुनः प्रगा-
ढायां प्रदोषवेळायामालपिष्यसि कर्णे कृतनर्मस्मिता विकटवर्मा-
णम् – 'धूर्तोऽसि त्वमकृतज्ञश्च । मदनुप्रहलब्धेनापि रूपेण
लोकलोचनोत्सवायमानेन मत्सपत्नीरभिरमयिष्यसि । नाहमा-
त्मविनाशाय वेतालोत्थापनमाचरेयम्' इति । श्रुत्वेदं त्वद्वचः स
यद्वदिष्यति तन्मह्यमेकाकिन्युपागत्य निवेदयिष्यसि । ततः पर-
पदचन्द्रिका ।
 
अभिमतं संमतम् । सुहृद्भिर्बान्धवैः । मन्त्रिभिः प्रधानैः । अनुजैः कनिष्ठभ्रातृभिः ।
संप्रघार्य निश्चित्य । 'निर्णयः संप्रधारणम् । तेषां पूर्वोक्तानाम् । अनुमते संमते ।
कर्मणि कार्ये । शृङ्गाटिकायामल्पचतुष्पथे । 'शृङ्गाटकचतुष्पथे' इत्यमरः ।
आथर्वणिकेन पुरोहितेन संज्ञपितो मारितो यः पशुस्तेन । 'संज्ञपितं विशसितं
समालब्धम्' इति वररुचिः । अभिहुत्य हुवा हिरण्यरेतस्यमौ । 'हिरण्यरेता हुत-
भुग्दहनः' इत्यमरः । त्वं पुनरिति । प्रगाढायामतिदृढायाम् । 'गाढबाढदृढानि
घ' इत्यमरः । प्रदोषवेलायां रजनीमुखसमये । आलपिष्यसि वदिष्यसि । कृतं
नर्मस्मितं परिहासहस्रितं ययेति सा । 'द्रवकेलिपरासाः क्रीडा लीला च नर्म
न' इत्यमरः । धूर्तो वञ्चकः । 'पापो धूर्ततु वञ्चकः' इत्यमरः । अकृतज्ञः
कृतज्ञतारहितः । मदनुग्रहलब्धेन मत्प्रसाद प्राप्तेन । लोकलोचनानां लोकनेत्राणा-
मुत्सववदाचरतीति तथा तेन । आत्मविनाशाय स्खमरणाय । वेतालोत्थापनं भूत-
भूषणा ।
 
थाभावः' इति वैजयन्ती । संप्रधार्य । शृङ्गाटिकायां चतुष्पथे । 'शृङ्गाटकचतु-
प्पथे' इत्यमरः । संज्ञपितं विशसितम् । नर्मस्मितं परिहासस्मितम् । 'द्रवके-
लिपरीहासाः क्रीडा लीला च नर्म च' इत्यमरः । धूर्तो वञ्चकः । 'पापो
लघुदीपिका ।
 

 
'विसंवादोऽन्यथाभावः' इति वैजयन्ती । संप्रधार्य निर्णीय । 'निर्णयः संप्रधारणम्' ।
शृङ्गाटिका । 'शृङ्गाटकचतुष्पथे' । 'संज्ञपितं विशसितं समालब्धम्' । नर्मस्मितं परि-
हाससितम् । 'द्रवकेलिपरीहासाः क्रीड़ा लीला च नर्म च' । 'पापो धूर्तस्तु वञ्चकः'
 
पाठा०-१ 'संमन्त्रय'. २ 'वीथि'. ३ 'धूमपटेन सह .