2023-09-04 17:37:10 by Lakshmainarayana achar

This page has been fully proofread twice.

पटम् । आचक्ष्व च 'किमियमाकृतिः पुरुषसौन्दर्यस्य पार-
मारुढा न वा' इति । 'बाढमारूढा' इति नूनमसौ वक्ष्यति ।
ब्रूहि भूयः – 'यद्येवम्, अस्ति कापि तापसी देशान्तरभ्रमण-लब्धप्रागल्भ्या मम च मातृभूता । तयेदमालेख्यरूपं पुरस्कृत्या-
हमुक्ता — 'सोऽस्ति तादृशो मन्त्रो येन त्वमुपोषिता पर्वणि विवि-
क्तायां भूमौ पुरोहितैर्हुतमुक्ते सप्तार्चिषि नक्तमेकाकिनी शतं
चन्दनसमिधः शतमगुरुसमिधः, कर्पूरमुष्टीः, पट्टवस्त्राणि च
प्रभूतानि हुत्वा भविष्यस्येवमाकृतिः । अथ चालयिष्यसि
घण्टाम् । घण्टापुटक्वणिताहूतश्च भर्ता भवत्यै सर्वरहस्यमाख्याय
निमीलिताक्षो यदि त्वामालिङ्गेत्, इयमाकृतिरमुमुपसंक्रामेत् ।
त्वं तु भविष्यसि यथा पुराकारैव । यदि भवत्यै भवत्प्रियाय चैवं
रोचेत, न चास्मिन्विधौ विसंवादः कार्यः' इति । 'वपुश्चेदिदं
 
पदचन्द्रिका ।
 
पटस्था । पारमुत्कटताम् । काप्यपरिमितशक्तिः । तापसी तपस्विनी । देशान्तरभ्रमणेनानेकदेशगमनेन लब्धं प्रागल्भ्यं प्रगल्भता ययेति सा । तया तापस्या । तादृशः प्रभाववानित्यर्थः । उपोषिताहारवर्जिता। 'उपवासः स विज्ञेयः सर्वाहारविवर्जितः'
इति स्मृतेः । पर्वण्यमावास्यादौ । विवक्तायां पूतायां विजनायां वा । 'विवक्तौ पूतविजनौ' इति । पूर्वं हुतः पश्चान्मुक्तस्तस्मिन् । सप्तार्चिष्यग्नौ । 'सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः' इत्यमरः । नक्तं रात्रौ । एकाकिनी । 'एकादाकिनिच्चासहाये (५।३।५२) इत्याकिनिच्प्रत्ययः । अद्वितीयेत्यर्थः । समिध इति द्वितीयाबहुवचनम् । 'काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्' इत्यमरः । कर्पूरमुष्टीः । बद्धकरपरिमितकर्पूरानित्यर्थः । 'मुष्टिर्बद्धकरे' इति विश्वः । प्रभूतानि प्रचुराणि । भविष्यसीति । एवमाकृतिश्चित्रफलकलिखिताकृतिः । क्वणितं प्रतिशब्दः । 'क्वणितं
प्रतिशब्दः स्याद्वीणानादः' इति । सर्वरहस्यं समस्तगुप्तविषयम् । उपसंक्रामेत् । संक्रान्ता भविष्यतीत्यर्थः । पुराकारा पूर्वाकृतिः। भवत्यै । तुभ्यमित्यर्थः । भवत्प्रियाय त्वद्भर्त्रे । एवं पूर्वोक्तप्रकारोदितम् । अस्मिन्विधावस्मिन्प्रयोजने । विसंवादः । 'विसंवादोऽन्यथाभावः' इति वैजयन्ती । अन्यथाभावो न कार्यः । इदं वपुरन्यथाभूतम्
 
भूषणा ।
 
'लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत्' इति । भवत्यै । 'रुच्यर्थानां - ' (१।४।३३) इति चतुर्थी ।विसंवादोऽन्यथाभावः । विसंवादोऽन्य-
 
लघुदीपिका ।
 
श्रमेषु विसर्पणम् । 'अभ्यासाद्धारयेद्रेतो यावत्स्यात्कृतिनिर्वृतिः ॥' इति वात्स्यायने ।
 
[^१]G. शङ्क्य:'.