2023-07-01 13:05:20 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् । १५९
 
पटम् । आचक्ष्व च 'किमियमाकृतिः पुरुषसौन्दर्यस्य पार-

मारुढा न वा' इति । 'बाढमारूढा' इति नूनमसौ वक्ष्यति ।

ब्रूहि भूयः – 'यद्येवम्, अस्ति कापि तापसी देशान्तरभ्रमण-
W
 
PARTNE
 
लब्धप्रागल्भ्या मम च मातृभूता । तयेदमालेख्यरूपं पुरस्कृत्या-

हमुक्ता — 'सोऽस्ति तादृशो मन्त्रो येन त्वमुपोषिता पर्वणि विवि-
का

क्ता
यां भूमौ पुरोहितैर्हुतमुक्ते सप्तार्चिषि नक्मेकाकिनी शतं

चन्दनसमिधः शतमगुरुसमिधः, कर्पूरमुष्टीः, पट्टवस्त्राणि च

प्रभूतानि हुत्वा भविष्यस्येवमाकृतिः । अथ चालयिष्यसि

घण्टाम् । घण्टापुटक्णिताहूतश्च भर्ता भवत्यै सर्वरहस्यमाख्याय

निमीलिताक्षो यदि त्वामालिङ्गेत्, इयमाकृतिरमुमुपसंक्रामेत् ।

त्वं तु भविष्यसि यथा पुराकारैव । यदि भवत्यै भवत्प्रियाय चैवं

रोचेत, न चास्मिन्विधौ विसंवादः कार्यः' इति । 'वपुश्चेदिदं
 

 
पदचन्द्रिका ।
 

 
पटस्था । पारमुत्कटताम् । काप्यपरिमितशक्तिः । तापसी तपस्विनी । देशान्तरभ्र-
मणेनानेकदेशगमनेन लब्धं प्रागल्भ्यं प्रगल्भता ययेति सा । तया तापस्या । तादृशः
प्रभाववानित्यर्थः । उपोषिताहारवर्जिता। 'उपवासः स विज्ञेयः सर्वाहारविवर्जितः

इति स्मृतेः । पर्वण्यमावास्यादौ । विवक्तायां पूतायां विजनायां वा । 'विवक्तौ
पूतविजनौ' इति । पूर्व हुतः पश्चान्मुक्तस्तस्मिन् । सप्तार्चिष्यमौग्नौ । 'सप्तार्चिर्दमुनाः
शुक्रश्चित्रभानुर्विभावसुः' इत्यमरः । नक्तं रात्रौ । एकाकिनी । 'एकादाकिनिञ्च्चासहाये
(५।३।५२) इत्याकिनिच्प्रत्ययः । अद्वितीयेत्यर्थः । समिध इति द्वितीयाबहुवचनम् ।
'काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्' इत्यमरः । कर्पूरमुष्टीः । बद्धकर-
परिमितकर्पूरानित्यर्थः । 'मुष्टिर्बद्धकरे' इति विश्वः । प्रभूतानि प्रचुराणि । भवि
व्
ष्यसीति । एवमाकृतिश्चित्रफलकलिखिताकृतिः । क्वणितं प्रतिशब्दः । 'क्वणितं

प्रतिशब्दः स्याद्वीणानादः' इति । सर्वरहस्यं समस्तगुप्तविषयम् । उपसंक्रामेत् ।
संक्रान्ता भविष्यतीत्यर्थः । पुराकारा पूर्वाकृतिः। भवत्यै । तुभ्यमित्यर्थः । भवत्प्रियाय
त्वद्भर्त्रे । एवं पूर्वोक्तप्रकारोदितम् । अस्मिन्विधावस्मिन्प्रयोजने । विसंवादः । 'विसं-
वादोऽन्यथाभावः' इति वैजयन्ती । अन्यथाभावो न कार्यः । इदं वपुरन्यथाभूतम्
 

 

 

 
भूषणा ।
 

 
'लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत्' इति । भवत्यै ।
'रुच्यर्थानां - ' (१३३) इति चतुर्थी । विसंवादोऽन्यथाभावः । विसंवादोऽन्य-

 
लघुदीपिका ।
 

 
श्रमेषु विसर्पणम् । 'अभ्यासाद्धारयेद्रेतो यावत्स्यात्कृतिनिर्वृतिः ॥' इति वात्स्यायने ।
पाठा०-

 
[^
']G. यःङ्क्य:'.