2023-07-01 12:52:53 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दशकुमारचरितम् ।
 
[ तृतीयः
 
शिथिलयन्नात्मानमपि तया समानार्थमापादयम् । तत्क्षणविमुक्त-

संगतौ रतावसानिकं विधिमनुभवन्तौ चिरपरिचितावि [^१]वाति-

गूढविश्रम्भौ क्षणमवातिष्ठावहि । [^२]पुनरहमुष्णमायतं च निः-

श्वस्य किंचिद्दीनदृष्टिः सचकितप्रसारिताभ्यां भुजाभ्यामेनामन-

तिपीडं परिष्वज्य नातिविशदमचुम्बिषम् । अश्रुमुखी तु सा 'यदि

प्रयासि नाथ, प्रयातमेव मे जीवितं गणय । नय मामपि । न

चेदसौ दासजनो निष्प्रयोजनः' इत्यञ्जलिमवतंसतामनैषीत् ।

अवादिषं च ताम् – 'अयि मुग्धे, कः सचेतनः स्त्रियमभिकाम-

यमानां नाभिनन्दति । यदि मदनुग्रहनिश्चलस्तवाभिसंधिराचरा-

विचारं मदुपदिष्टम् । आदर्शय रहसि राज्ञे मत्सादृश्यगर्भं चित्र-
१५८
 
J
 

 
पदचन्द्रिका ।
 
तु
 

 
सहावयवाम् । लक्षयित्वा दृष्ट्वा । मानसीं शारीरीं च धारणाम्। 'शरीरधारणा यत्तु
भौतिकं तु निरीक्षणम् । मानसं तु मुनीनां स्यादाश्रमेषु विसर्पणम् । अभ्यासं
धारयेद्रेतो यावत्स्यात्कृतिनिर्वृतिः ॥' इति वात्स्यायने कामशास्त्रे । तया नायिकया ।
समानार्थमापादयं समपादयम् । तदिति । विमुक्तौ च तौ संगतौ चेति । अना-
श्लिष्टस्थिताविति भावः । रतावसानिकं सुरतान्तसमयोचितम् । विधिं व्यापारम् ।
अतिगूढविश्रम्भावतिगुप्तविश्वासौ । क्षणं किंचित्कालम् । अवातिष्ठावहीति ।
'ष्टाठा गतिनिवृत्तौ' इत्यस्य रूपम् । आयतं दीर्घम् । एनां नायिकाम् । परिष्वज्या-
लिङ्ग्य । अश्रु मुखे यस्या इति । प्रयातमेव गतमेव । गणय । जानीहीत्यर्थः ।
असौ मद्रूपः । निष्प्रयोजनोऽकिंचित्कर इति यावत् । अञ्जलिं प्रसृतिद्वयमेलनम् ।

'पाणिर्निकुन्जःब्ज: प्रसृतिस्तौ युतावञ्जलिः पुमान्' इत्यमरः । अवतंसतां शिरोभूष-
णताम् । अनैषीत् । 'णीज्ञ् प्रापणे' इत्यस्य द्विकर्मकता । अभिकामयमानामभि-
कामयतेऽसौ तथा । स्वयमनुरक्तामित्यर्थः । नाभिनन्दति न स्तौति । यदीति ।
अभिसंधिरभिप्रायः । आचर । कुर्वित्यर्थः । अविचारं विचाररहितम् । आदर्श-
येति । रहस्येकान्ते । मत्सादृश्यगर्भं मत्सदृशरूपयुक्तम् । इयमाकृतिश्चित्र-

 
भूषणा ।
 

 
दृढमङ्गुल्या निपीड्य रविकाले । चिन्तान्तरनिहितमनाः कुम्भितपवनव्च्युतिं जय-
ति ॥" इति । अभिकामयमानां नाभिनन्दति । ध्वनितं चैतदभिज्ञानशाकुन्तले-

 
लघुदीपिका ।
 

 
धारणाम् । 'शरीरधारणा यत्तु भौतिकं तु निरीक्षणम् । मानसं तु मुनीनां स्यादा-
पाठा०-

 
[^
]G. 'अतिरूढ'
[^
]G. 'तदावयोर्वियोगकाले समुपायाते पुनरह-
मुष्णम्'.