This page has not been fully proofread.

दशकुमारचरितम् ।
 
[ तृतीयः
 
शिथिलयन्नात्मानमपि तया समानार्थमापादयम् । तत्क्षणविमुक्त-
संगतौ रतावसानिकं विधिमनुभवन्तौ चिरपरिचिताविवाति-
गूढविम्भौ क्षणमवातिष्ठावहि । पुनरहमुष्णमायतं च निः-
श्वस्य किंचिद्दीनदृष्टिः सचकितप्रसारिताभ्यां भुजाभ्यामेनामन-
तिपीडं परिष्वज्य नातिविशदमचुम्बिषम् । अश्रुमुखी तु सा 'यदि
प्रयासि नाथ, प्रयातमेव मे जीवितं गणय । नय मामपि । न
चेदसौ दासजनो निष्प्रयोजनः' इत्यञ्जलिमवतंसतामनैषीत् ।
अवादिषं च ताम् – 'अयि मुग्धे, कः सचेतनः स्त्रियमभिकाम-
यमानां नाभिनन्दति । यदि मदनुग्रहनिश्चलस्तवाभिसंधिराचरा-
विचारं मदुपदिष्टम् । आदर्शय रहसि राज्ञे मत्सादृश्यगर्भं चित्र-
१५८
 
J
 
पदचन्द्रिका ।
 
तु
 
सहावयवाम् । लक्षयित्वा दृष्ट्वा । मानसीं शारीरीं च धारणाम्। 'शरीरधारणा यत्तु
भौतिकं तु निरीक्षणम् । मानसं तु मुनीनां स्यादाश्रमेषु विसर्पणम् । अभ्यासं
धारयेद्रेतो यावत्स्यात्कृतिनिर्वृतिः ॥ इति वात्स्यायने कामशास्त्रे । तया नायिकया ।
समानार्थमापादयं समपादयम् । तदिति । विमुक्तौ च तौ संगतौ चेति । अना-
श्लिष्टस्थिताविति भावः । रतावसानिकं सुरतान्तसमयोचितम् । विधिं व्यापारम् ।
अतिगूढविश्रम्भावतिगुप्तविश्वासौ । क्षणं किंचित्कालम् । अवातिष्ठावहीति ।
'ष्टा गतिनिवृत्तौ' इत्यस्य रूपम् । आयतं दीर्घम् । एनां नायिकाम् । परिष्वज्या-
लिङ्ग्य । अश्रु मुखे यस्या इति । प्रयातमेव गतमेव । गणय । जानीहीत्यर्थः ।
असौ मद्रूपः । निष्प्रयोजनोऽकिंचित्कर इति यावत् । अञ्जलिं प्रसृतिद्वयमेलनम् ।
'पाणिर्निकुन्जः प्रसृतिस्तौ युतावञ्जलिः पुमान्' इत्यमरः । अवतंसतां शिरोभूष-
णताम् । अनैषीत् । 'णीज् प्रापणे' इत्यस्य द्विकर्मकता । अभिकामयमानामभि-
कामयतेऽसौ तथा । स्वयमनुरक्तामित्यर्थः । नाभिनन्दति न स्तौति । यदीति ।
अभिसंधिरभिप्रायः । आचर । कुर्वित्यर्थः । अविचारं विचाररहितम् । आदर्श-
येति । रहस्येकान्ते । मत्सादृश्यगर्भ मत्सदृशरूपयुक्तम् । इयमाकृतिश्चित्र-
भूषणा ।
 
दृढमङ्गुल्या निपीड्य रविकाले । चिन्तान्तरनिहितमनाः कुम्भितपवनव्युतिं जय-
ति ॥" इति । अभिकामयमानां नाभिनन्दति । ध्वनितं चैतदभिज्ञानशाकुन्तले-
लघुदीपिका ।
 
धारणाम् । 'शरीरधारणा यत्तु भौतिकं तु निरीक्षणम् । मानसं तु मुनीनां स्यादा-
पाठा०-१ 'अतिरूढ' २ 'तदावयोर्वियोगकाले समुपायाते पुनरह-
मुष्णम्'.