This page has been fully proofread once and needs a second look.

ततः कदाचिन्नानाविधमहदायुधनैपुण्यरचितागण्यजन्यराजन्य-
मौलिपालिनिहितनिशितसायको मगधनायको मालवेश्वरं प्रत्यग्रस-
ङ्ग्रा्मरागहघस्मरं समुत्कटमानसारं मानसारं प्रति [^१]सहेलं न्यक्कृतजलधिनिर्घोषाहङ्कारेण भेरीझाङ्कारेण हठिकाकर्णनाक्रान्तभयचण्डिमानं दिग्दन्तावलवलयं विघूर्णयन्निजभरनमन्मेदिनी [^२]भेरेणायस्तभुजगरा-
जमस्तकबलेन चतुरङ्गबलेन संयुतः सङ्ग्रामाभिलाषेण रोषेण महताविष्टो निर्ययौ । मालवनाथोऽप्यनेकानेकपयूथसनाथो विग्रहः
सविग्रह इव साग्रहोऽभिमुखीभूय भूयो निर्जगाम । तयोरथ रथ-
तुरगखुरक्षुण्णक्षोणीसमुद्भूते करिघटाकटस्रवन्मद्धाराधौतमूले
 
तत इति । नानाविधान्यनेकप्रकाराणि । महान्त्यायुधानि तेषु निपुणता तया रचितानि कृतानि यान्यगण्यान्यसंख्यानि जन्यानि युद्धानि तेषु राजन्यानां क्षत्रियाणां मौलीनां किरीटानां पालिषु प्रान्तप्रदेशेषु निहिता अध्यारोपिताः स्थापिता वा निशितास्तीक्ष्णाः सायका बाणा येनैतादृशः । 'युद्धमायोधनं जन्यम्' इति,
'मूर्धाभिषिक्तो राजन्यः' इति चामरः । 'मौलिः किरीटे धम्मिले चूडायामनपुंसकम्' इति मेदिनी । 'पालिः कर्णलतायां स्यात्प्रदेशे पङ्क्तिचिह्नयोः' इत्यजयः ।'निशितक्ष्णुतशातानि तेजिते' इत्यमरः । प्रत्यग्रो नवीनो यः सङ्ग्रामो युद्धं तस्य तस्मिन्वा घस्मरो भक्षकः । शत्रुनाशक इत्यर्थः । 'सृघस्यदः क्मरच्' (३।२।१६० )
इति क्मरच् । समुत्कटोऽतिरिक्तो मान एव सारो यस्य तम् । मानसार इति नृपनाम । सहेलं लीलया न्यक्कृतोऽवधूतस्तिरस्कृतो जलधेः सागरस्य निर्घोषविषयेऽहङ्कारोऽभिमानो येन । भेरीझाङ्कारेणेत्यस्य विशेषणम् । भेर्या दुन्दुभेर्झाङ्कारो महाशब्दः । हठिकाकर्णनान्महतो ध्वनेर्बलादाकर्णनाच्छ्रवणादाक्रान्तं महाभयं यं तम् । दिशां दन्तावला हस्तिनस्तेषां वलयं चक्रं समूहः । 'दन्ती' दन्तावलो हस्ती' इत्यमरः । विघूर्णयंश्चालयन् । निजभरेण स्वभारेण नमन्त्यधोगच्छन्ती या मेदिनी पृथ्वी तस्या भरेण भारेणायस्तं पीडितं भुजगानां राजा शेषस्तस्य मस्तकबलं येन । तस्य मेदिन्या आधारभूतत्वात् । चतुरङ्गबलेन हस्त्यश्वरथपादातेन सेनाङ्गेन ।
आविष्टो व्याप्ताकारः । अनेके येऽनेकपा द्विपाः । हस्तिन इति यावत् । तेषां यूयं वृन्दं तेन सनाथो युक्तः । विग्रहः सङ्ग्रामः । सविग्रहो मूर्तिमान् ।'युद्धे देहे च विग्रहः' इति कोशः । साग्रह आग्रहेण सहितः । 'तयोः अथ' इति छेदः । रथैरर्थाद्रथचक्रनेमिभिः तुरगाणामश्वानां खुरैः शफैः क्षुण्णायाश्चूर्णितायाःक्षोण्याः पृथ्व्याः समुद्भूते उत्पन्ने । करिणां हस्तिनां घटाः । 'बहूनां घटना
घटा' इति हलायुधः । तासां कटा गण्डाः । 'करटः स्यात्कटो गण्डः' इति हलायुधः । तेभ्यः स्रवन्त्यो या मदधारा दानसलिलासारास्ताभिर्धौतं निर्मलीकृतं मूलं
 
[^१]G.'सहेलन्यक्कृत'.
[^२]G.'भरणायस्त'.