2023-05-18 02:09:50 by ambuda-bot
This page has not been fully proofread.
प्रथमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
ततः कदाचिन्नानाविधमहदायुध नैपुण्यरचितागण्यजन्यराजन्य-
मौलिपालिनिहितनिशितसायको मगधनायको मालवेश्वरं प्रत्यग्रस-
ड्रामघस्मरं समुत्कटमानसारं मानसारं प्रति सहेलं न्यकृतजलधि-
निर्घोषाहकारेण भेरीझाङ्कारेण हठिकाकर्णनाक्रान्तभयचण्डिमानं
दिग्दन्तावलवलयं विघूर्णयन्निजभरनमन्मेदिनीभैरैणायस्तभुजगरा-
जमस्तकबलेन चतुरङ्गबलेन संयुतः सङ्घामाभिलाषेण रोषेण मह-
ताविष्टो निर्ययौ । मालवनाथोऽप्यनेकानेकपयूथसनाथो विग्रहः
सविग्रह इव साग्रहोऽभिमुखीभूय भूयो निर्जगाम । तयोरथ रथ-
तुरगखुरक्षुण्णक्षोणीसमुद्भूते करिघटाकटस्रवन्मद्धाराधौतमूले
WIL
$8
।
तत इति । नानाविधान्यनेकप्रकाराणि । महान्त्यायुधानि तेषु निपुणता तया
रचितानि कृतानि यान्यगण्यान्यसंख्यानि जन्यानि युद्धानि तेषु राजन्यानां क्षत्रि-
याणां मौलीनां किरीटानां पालिषु प्रान्तप्रदेशेषु निहिता अध्यारोपिताः स्थापिता
वा निशितास्तीक्ष्णाः सायका बाणा येनैतादृशः । 'युद्धमायोधनं जन्यम्' इति,
'मूर्धाभिषिक्तो राजन्यः' इति चामरः । 'मौलिः किरीटे धम्मिले चूडायामनपुंस-
कम्' इति मेदिनी । 'पालिः कर्णलतायां स्यात्प्रदेशे पङ्किचिह्नयोः' इत्यजयः ।
'- निशितक्ष्णुतशातानि तेजिते' इत्यमरः । प्रत्यग्रो नवीनो यः सङ्ग्रामो युद्धं तस्य
तस्मिन्वा घस्मरो भक्षकः । शत्रुनाशक इत्यर्थः । 'सृघस्यदः क्मरच्' (३।२।१६० )
इति क्मरच् । समुत्कटोऽतिरिक्तो मान एव सारो यस्य तम् । मानसार इति
नृपनाम । सहेलं लीलया न्यकृतोऽवधूतस्तिरस्कृतो जलधेः सागरस्य निर्घोषवि-
षयेऽहङ्कारोऽभिमानो येन । भेरीझाङ्कारेणेत्यस्य विशेषणम् । भेर्या दुन्दुमेर्झाङ्कारो
महाशब्दः । हठिकाकर्णनान्महतो ध्वनेर्बलादाकर्णनाच्छ्रवणादाक्रान्तं महाभयं यं
तम् । दिशां दन्तावला हस्तिनस्तेषां वलयं चक्रं समूहः । 'दन्ती' दन्तावलो हस्ती'
इत्यमरः । विघूर्णयंश्चालयन् । निजभरेण स्वभारेण नमन्त्यधोगच्छन्ती या मेदिनी
पृथ्वी तस्या भरेण भारेणायस्तं पीडितं भुजगानां राजा शेषस्तस्य मस्तकबलं येन ।
तस्य मेदिन्या आधारभूतत्वात् । चतुरङ्गबलेन हस्त्यश्वरथपादातेन सेनाङ्गेन ।
आविष्टो व्याप्ताकारः । अनेके येऽनेकपा द्विपाः । हस्तिन इति यावत् ।
तेषां यूयं वृन्दं तेन सनाथो युक्तः । विग्रहः सङ्ग्रामः । सविग्रहो मूर्तिमान् ।
'युद्धे देहे च विग्रहः' इति कोशः । साग्रह आग्रहेण सहितः । 'तयोः अथ' इति
छेदः । रथैरर्थाद्रथचक्रनेमिभिः तुरगाणामश्वानां खुरैः शफैः क्षुण्णाया चूर्णितायाः
क्षोण्याः पृथ्व्याः समुद्भूते उत्पन्ने । करिणां हस्तिनां घटाः । 'बहूनां घटना
घटा' इति हलायुधः । तासां कटा गण्डाः । 'करटः स्यात्कटो गण्डः' इति हला-
युधः । तेभ्यः स्रवन्त्यो या मदधारा दानसलिलासारास्ताभिधतं निर्मलीकृतं मूलं
पाठा० - १ 'सहेलन्यकृत'. २ 'भरणायस्त'.