2023-09-05 10:20:29 by Lakshmainarayana achar

This page has been fully proofread twice.

जकुम्भयुगलेन, क्रीडासरो नाभिमण्डलेन, संनाह्यरथः श्रोणि-
मण्डलेन, भवनरत्नतोरणस्तम्भयुगलमूरुयुगलेन, लीलाकर्णकिस-
लयं चरणतलप्रभाभिः । अतः स्थान एव त्वां दुनोति मीनकेतुः ।
मां पुनरनपराधमधिकमायासयतीत्येष एव तस्य दोषः । तत्प्रसीद
सुन्दरि, जीवय मां जीवनौपधिभिरिवापाङ्गैरनङ्गभुजङ्गदष्टम्'
इत्याश्लिष्टवान् । अरीरमं [^१]चानङ्गरागपेशलविशाललोचनाम् ।
अवसितार्था [^२]चारक्तवलितेक्षणामीषत्स्वेद- रेखोद्भेदजर्जरितकपोलमूलामनर्गल[^३]कलकलप्रलापिनी-
[^४]मरुणदशनकररुहार्पणव्यतिकरामत्यर्थपरिश्लथाङ्गीमार्तामि-व लक्षयित्वा मानसीं शारीरीं च धारणां
 
पदचन्द्रिका ।
 
कुम्भमिथुनं पूर्णघटद्वन्द्वम् । उरोजकुम्भौ स्तनकलशौ, तयोर्युगलेन युग्मेन । 'युग्मं तु युगलं युगम्' इत्यमरः । मीनो मत्स्यः क्रीडासरः खेलासरोवरम् । संनाह्यरथः संग्रामार्थं सज्जीकृतो रथः । रत्नयुक्तौ तोरणस्तम्भौ तयोर्युगलम् । कर्णकिसलयं कर्णपल्लवम् । 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । अतो हेतोः । स्थाने ।
युक्तमित्यर्थः । 'युक्ते द्वे सांप्रतं स्थाने' इत्यमरः । दुनोति दुःखितां करोति । मीनकेतुर्मदनः । अनपराधमपराधरहितम् । अधिकं बहु । आयासयति क्लेशयति । एष मदीयस्वरूपः । तस्य मदनस्य । जीवनौषधिभिरिवापाङ्गैरित्यत्रोपमेयोपमानभावश्चन्द्रमुखवज्ज्ञेयः । अनङ्ग एव भुजङ्गः सर्पस्तेन दष्टम् । मामिति प्रागुदीरित-
पदेनान्वितम् । आश्लिष्टवान् । आलिलिङ्गेत्यर्थः । अरीरममिति । अनङ्गरागेण मदनरागेण पेशले रम्ये विशाले लोचने यस्यास्ताम् । अवसितः समाप्तोऽर्थो रेतःपतनरूपं प्रयोजनं यस्याः । वलितं वक्रितमीक्षणमवलोकनं यस्याः । 'ईक्षणं दर्शने दृष्टौ' इति विश्वः । स्वेदरेखा घर्मराजिस्तस्या उद्भेदः प्रारम्भस्तेन जर्जरितं क्लिष्टं कपोलमूलं यस्यास्ताम् । अनर्गलोऽप्रतिहतः कलकल: कोलाहलस्तं प्रलपतीति प्रलापिनी ताम् । अरुणदशने आरक्तदन्ते कररुहस्य नखस्यार्पणं दानं तद्व्यतिकरो यस्यास्तामिति व्याख्ययाश्चर्यातिशयद्योतनं व्यज्यते । अरुणं यद्दशनकररुहं दन्तनखं तस्यार्पणं करणं तव्यतिकरो यस्या इति वा । श्लथाङ्गीं निः-
 
भूषणा ।
 
इत्यमरः । संनाह्यरथो युद्धरथः । अवसितार्था कृतकृत्याम् । जातरेतः पातामित्यर्थः । चिकुरितं वलितम् । मानसीं शारीरीं च धारणाम्। 'मुष्कशिराया मूलं
 
लघुदीपिका ।
 
अवसितार्थाम् । जातरेतःपातामित्यर्थः । चिकुरितं वलितम् । मानसीं शारीरीं च
 
[^१]G. 'अनङ्गरागावेशपेशलां विशाललोचनाम्'.
[^२]G. 'चिकुरितेक्षणा'.
[^३]G. 'कलप्रलापिनी', 'कलाप्रलापिनी'
[^४]G. 'अकरुण',
१४ ६० कु०