2023-09-05 10:20:36 by Lakshmainarayana achar

This page has been fully proofread twice.

कार्यव[^१]दध्यवस्य [^२]तदसंभवेन किमेवमुत्ताम्यसि । भगवन्पञ्चबाण, कस्तवापराधः कृतो मया यदेवं दहसि, न च भस्मीकरोषि इति । अथाहमाविर्भूय विवृतदीपभाजनः 'भामिनि, ननु बह्वपराद्धं भवत्या चित्तजन्मनो यदमुष्य जीवितभूता रतिराकृत्या कदर्थिता, धनुर्यष्टिर्भ्रूलताभ्याम्, भ्रमरमालामयी ज्या नीलालकद्युतिभिः, अस्त्राण्य [^३]पाङ्गवीक्षितवृष्टिभिः, महारजनध्वजपटांशुकं दन्तच्छदमयूखजालैः, प्रथमसुहृन्मलयमारुतः परिमलपटीयसा निःश्वासपवनेन, परभृतमतिमञ्जुलैः प्रलापैः, पुष्पमयी पताका भुजयष्टिभ्याम्, दिग्विजयारम्भपूर्णकुम्भमिथुनमुरो-
 
पदचन्द्रिका ।
 
जीवितुम् । अयीति खेदोक्त्या कोमलामन्त्रणे । इदं प्रकृतम् । अकार्यमकृत्यम् । अध्यवस्य निश्चित्य । तदसंभवेन कार्यासंभवेन । उत्तामस्युत्तप्तं भवसि । पञ्चबाण मदन । दहसि दाहमात्रं करोषि । परंतु न भस्मीकरिष्यसीति । भस्मीकरणे दुःखानुभवव्यथा न स्यादिति भावः । अथाहमिति । आविर्भूय प्रकटीभूय । विवृतदीपभाजन उद्घाटितदीपपात्रः । भामिनीति सकोपकामिनी-
संबोधनम् । 'कोपना सैव भामिनी' इत्यमरः । भवत्या । त्वयेत्यर्थः । चित्तजन्मनो मदनस्य । यद्यस्मात् । अमुष्य चित्तजन्मनः जीवितभूता प्राणभूता । रतिस्तद्भार्या । आकृत्याकारेण । कदार्थिताधिक्षेपिता ( क्षिप्ता ) । धनुर्यष्टिभ्रूलताभ्यां भ्रूवल्लीभ्याम् । भ्रमरमाला भ्रमरपङ्क्तिस्तन्मयी तत्प्रचुरा । ज्या मौर्वी ।
'मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः । नीला श्यामा येऽलकाः कुन्तलास्तेषां द्युतिभिः । कान्तिभिः । अस्त्राणि शस्त्राणि । अपाङ्गवीक्षितं नेत्रप्रान्तदर्शनं तद्दृष्टिभिः । महारजनं कुङ्कुमम् । 'स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि' इत्यमरः ।
तद्युक्तो यो ध्वजपटः पताकावस्त्रं तस्यांशुरेवांशुकम् । दन्तच्छद ओष्ठः । प्रथमसुहृन्मुख्यमित्रम् । मलयमारुतो मलयवायुः । 'समीरमारुतमरुत्' इत्यमरः । परिमलपटीयसा सौगन्ध्यसमर्थेन । परमृतं कोकिलम् । अतिमञ्जुलैरतिमनोज्ञैः । 'मनोज्ञं मञ्जु मञ्जुलम्' इत्यमरः । पताकाल्पचिह्नम् । दिग्विजयारम्भे शकुनार्थं पूर्ण-
 
भूषणा ।
 
तत्रादृष्ट्वा संतापसंकुला' इति रसरत्नहारः । महारजनं कुसुम्भम् । 'स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि' इत्यमरः ।मञ्जुलैर्मनोहरैः । 'मनोज्ञं मञ्जु मञ्जुलम्'
 
लघुदीपिका ।
 
सपीतकः' । 'भृङ्गारः कनकालुका' । महारजनम् । 'स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि' । मञ्जुलैर्मनोहरैः । 'मनोज्ञं मञ्जु मञ्जुलम्' । संनाह्यरथो युद्धरथः ।
 
[^१]G. 'अध्यवसाय'.
[^२]G. 'तदसंभवे'.
[^३]G. 'वीक्षितैः'.