This page has not been fully proofread.

१५६
 
दशकुमारचरितम् ।
 
[ तृतीयः
 
कार्यवदेण्यवस्य तंदसंभवेन किमेवमुत्ताम्यसि । भगवन्पञ्चबाण,
कस्तवापराधः कृतो मया यदेवं दहसि, न च भस्मीकरोषि
इति । अथाहमाविर्भूय विवृतदीपभाजनः 'भामिनि, ननु बह्व-
पराद्धं भवत्या चित्तजन्मनो यदमुष्य जीवितभूता रतिराकृत्या
कदर्थिता, धनुर्यष्टिर्भ्रलताभ्याम्, भ्रमरमालामयी ज्या नीलाल-
कधुतिभिः, अस्त्राण्यपाङ्गवीक्षितवृष्टिभिः, महारजनध्वजपटां-
शुकं दन्तच्छदमयूखजालैः प्रथमसुहृन्मलयमारुतः परिमल-
पटीयसा निःश्वासपवनेन, परभृतमतिमञ्जुलैः प्रलापैः पुष्प-
मयी पताका भुजयष्टिभ्याम्, दिग्विजयारम्भपूर्णकुम्भमिथुनमुरो-
-
 
पदचन्द्रिका ।
 

 
जीवितुम् । अयीति खेदोत्तया कोमलामन्त्रणे । इदं प्रकृतम् । अकार्यमकृत्यम् ।
अध्यवस्य निश्चित्य । तदसंभवेन कार्यासंभवेन । उत्तामस्युत्तप्तं भवसि । पञ्च-
बाण मदन । दहसि दाहमात्रं करोषि । परंतु न भस्मीकरिष्यसीति । भस्मी-
करणे दुःखानुभवव्यथा न स्यादिति भावः । अथाहमिति । आविर्भूय
प्रकटीभूय । विवृतदीपभाजन उद्घाटितदीपपात्रः । भामिनीति सकोपकामिनी-
संबोधनम् । 'कोपना सैव भामिनी' इत्यमरः । भवत्या । त्वयेत्यर्थः । चित्त-
जन्मनो मदनस्य । यद्यस्मात् । अमुष्य चित्तजन्मनः जीवितभूता प्राणभूता ।
रतिस्तद्भार्या । आकृत्याकारेण । कदार्थताधिक्षेपिता ( क्षिप्ता ) । धनुर्यष्टिभ्रूलता-
भ्यां भूवल्लीभ्याम् । अमरमाला भ्रमरपङ्किस्तन्मयी तत्प्रचुरा । ज्या मौर्वी ।
'मौवीं ज्या शिजिनी गुणः' इत्यमरः । नीला श्यामा येऽलकाः कुन्तलास्तेषां
द्युतिभिः । कान्तिभिः । अस्त्राणि शस्त्राणि । अपाङ्गवीक्षितं नेत्रप्रान्तदर्शनं तद्दृष्टिभिः ।
महारजनं कुङ्कुमम् । 'स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि' इत्यमरः ।
तद्युक्तो यो ध्वजपटः पताकावस्त्रं तस्यांशुरेवांशुकम् । दन्तच्छद ओष्ठः । प्रथमसुहृ-
न्मुख्यमित्रम् । मलयमारुतो मलयवायुः । 'समीरमारुतमरुत्' इत्यमरः । परिम-
लपटीयसा सौगन्ध्यसमर्थेन । परमृतं कोकिलम् । अतिमञ्जुलैरतिमनोज्ञैः । 'मनोज्ञं
मञ्जु मञ्जुलम्' इत्यमरः । पताकाल्पचिह्नम् । दिग्विजयारम्भे शकुनार्थ पूर्ण-
W
 
भूषणा ।
 
तत्रादृष्ट्या संतापसंकुला' इति रसरत्नहारः । महारजनं कुसुम्भम् । 'स्यात्कुसुम्भं
वह्निशिखं महारजनमित्यपि' इत्यमरः । मञ्जुलैर्मनोहरैः । 'मनोज्ञं मञ्जु मञ्जुलम्'
लघुदीपिका ।
 
सपीतकः' । 'भृङ्गारः कनकालुका' । महारजनम् । 'स्यात्कुसुम्भं वह्निशिखं महार-
जनमित्यपि' । मञ्जुलैर्मनोहरैः । 'मनोज्ञं मञ्जु मञ्जुलम्' । संनाह्यरथो युद्धरंथः ।
 
पाठा०-१ 'अध्यवसाय'. २ 'तदसंभवे'. ३ 'वीक्षितैः'.