2023-09-05 10:20:42 by Lakshmainarayana achar

This page has been fully proofread twice.

लतामयमभिनवकुसुमकोरकपुलकलाञ्छितं प्रत्यग्रप्रवालपटलपा-
टलं कपाटमुद्धाट्य प्राविक्षम् । तत्र चासी [^१]त्स्वास्तीर्णं कुसुमशयनम्, [^२]सुरतोपकरणवस्तुगर्भाश्च कमलिनीपलाशसंपुटाः, दन्तमयस्तालवृन्तः, सुरभिसलिलभरितश्च [^३]भृङ्गारकः । समुपविश्य मुहूर्तं विश्रान्तः परिमलमतिशयवन्तमाघ्रासिषम् । अश्रौषं च मन्दमन्दं पदशब्दम् । श्रुत्वैव संकेतगृहान्निर्गत्य रक्ताशोकस्कन्धपार्श्वव्यवहिताङ्गयष्टिः स्थितोऽस्मि । सा च [^४]सुभ्रूः सुषीमकामा शनैरुपेत्य तत्र मामदृष्ट्वा बलवदव्यथिष्ट । व्यसृजच्च मत्तराजहंसीव कण्ठरागवल्गुगद्गदां गिरम् – 'व्यक्तमस्मि विप्रलब्धा । नास्त्युपाय: प्राणितुम् । अपि हृदय, किमिदमकार्यं
 
पदचन्द्रिका ।
 
मरः । तेषां पङ्क्ति: सैव भित्तिस्तत्परिगतं तद्युक्तम् । गर्भगृहं गर्भागारम् । अवनिपतिताः पृथिव्यां लग्ना अरुणा आरक्ता अशोकलता अशोकशाखास्तन्मयम् । अभिनवा नूतनाः कुसुमकोरकाः पुष्पमुकुलास्त एव पुलकास्तैर्लाञ्छितं चिह्नितम् । प्रत्यग्रं नूतनं प्रवालपटलं, पल्लवसमूहस्तेन पाटलं श्वेतरक्तम् । प्राविक्षमविशम् । तत्र चेति । स्वास्तीर्णं सुष्ठ्वास्तरणं यस्मिंस्तत् । कुसुमशयनं पुष्पयुक्तं पर्यङ्कम् । सुरतार्थमुपकरणवस्तूनि गर्भे येषामिति । कमलिनीपलाशानां कमलिनीपत्राणाम् । संपुटा द्रोणाः । सुरभिसलिलं सुगन्धोदकं तेन भरितः पूरितः भृङ्गारकः पात्रम् । 'भृङ्गारः कनकालुका' इत्यमरः । समुपविश्य संप्रविश्य ।
मुहूर्तं घटिकाद्वयम् । परिमलं गन्धम् । अतिशयवन्तमाधिक्यवन्तम् । आघ्रासिषम् । 'घ्रा गन्धोपादाने' । अश्रौषं श्रुतवान् । पदशब्दं चरणशब्दम् । रक्ताशोकस्कन्धस्य पार्श्वे व्यवहिताङ्गयष्टिर्यस्येति । सुषीमः शिशिरः कामो यस्याः सा । 'सुषीमः शिशिरो जडः' इत्यमरः । शनैर्मन्दम् । तत्र संकेतगृहे बलवदत्यर्थम् ।
अव्यथिष्ट व्यथां प्रापेत्यर्थः । व्यसृजत् । विससर्जेत्यर्थः । वल्गुः सुन्दरो गद्गदो यस्यां तथा ताम् । गिरं वाचम् । व्यक्तं प्रकटम् । विप्रलब्धा प्रतारिता । प्राणितुं
 
भूषणा ।
 
कम्' इत्यमरः । भृङ्गारः भाषया 'झारी' इति प्रसिद्धः । 'भृङ्गारः कनकालुक' इत्यमरः । परिमलं जनमनोहरं गन्धम् । 'विमर्दोत्थे परिमलो गन्धे जनमनोहरे' इत्यमरः । असुषीमकामा तीव्रमन्मथा । 'सुषीमः शिशिरो जडः' इत्यमरः । विप्रलब्धा वञ्चिता । 'विप्रलब्धस्तु वञ्चितः' इत्यमरः । विप्रलब्धा प्रिय
 
[^१]G. 'विस्तीर्णम्'.
[^२]G. 'मदनोपकरण',
[^३]G. 'भृङ्गारः',
[^४]G. 'सुभ्रूरसुषीमकामा'.