This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
लतामयमभिनवक्कुसुमकोरकपुलकलाञ्छितं प्रयग्रप्रवालपटलंपा-
टलं कपाटमुद्धाट्य प्राविक्षम् । तत्र चासीत्खास्तीर्ण कुसुमशय-
नम्, सुरतोपकरणवस्तुगर्भाश्च कमलिनीपलाशसंपुटाः, दन्तम-
यस्तालवृन्तः, सुरभिसलिलभरितश्च भृङ्गारकः । समुपविश्य
मुहूर्तं विश्रान्तः परिमलमतिशयवन्तमाघ्रासिषम् । अश्रौषं च
मन्दमन्दं पद॒शब्दम् । श्रुत्वैव संकेतगृहान्निर्गत्य रक्ताशोकस्क-
न्धपार्श्वव्यवहिताङ्गयष्टिः स्थितोऽस्मि । सा च सुँभ्रूः सुषीम-
कामा शनैरुपेत्य तत्र मामदृष्ट्वा बलवदव्यथिष्ट । व्यसृजच्च मत्त-
राजहंसीव कण्ठरागवलगुगद्गदां गिरम् – 'व्यक्तमस्मि विप्र-
लब्धा । नास्त्युपाय: प्राणितुम् । अपि हृदय, किमिदमकार्य
पदचन्द्रिका ।
 
१५५
 
मरः । तेषां पङ्किः सैव भित्तिस्तत्परिगतं तद्युक्तम् । गर्भगृहं गर्भागारम् । अव-
निपतिताः पृथिव्यां लग्ना अरुणा आरक्ता अशोकलता अशोकशाखास्तन्मयम् ।
अभिनवा नूतनाः कुसुमकोरकाः पुष्पमुकुलास्त एव पुलकास्तैर्लाञ्छितं चिह्नि-
तम् । प्रत्यग्रं नूतनं प्रवालपटलं, पल्लव समूहस्तेन पाटलं श्वेतरक्तम् । प्राविक्षमवि-
शम् । तत्र चेति । स्वास्तीर्ण सुष्ठास्तरणं यस्मिंस्तत् । कुसुमशयनं पुष्पयुक्तं
पर्यकम् । सुरतार्थमुपकरणवस्तूनि गर्ने येषामिति । कमलिनीपलाशानां कमलि-
नीपत्राणाम् । संपुटा द्रोणाः । सुरभिसलिलं सुगन्धोदकं तेन भरितः पूरितः
भृङ्गारकः पात्रम् । 'भृङ्गारः कनकालुका' इत्यमरः । समुपविश्य संप्रविश्य ।
मुहूर्त घटिफाद्वयम् । परिमलं गन्धम् । अतिशयवन्तमाधिक्यवन्तम् । आघ्रासि-
घम् । 'घ्रा गन्धोपादाने' । अश्रौषं श्रुतवान् । पदशब्दं चरणशब्दम् । रक्ताशो-
कस्कन्धस्य पार्श्वे व्यवहितामयष्टिर्यस्येति । सुषीमः शिशिरः कामो यस्याः सा ।
'सुषीमः शिशिरो जडः' इत्यमरः । शनैर्मन्दम् । तत्र संकेतगृहे बलवदत्यर्थम् ।
अव्यथिष्ट व्यथां प्रापेत्यर्थः । व्यसृजत् । विससर्जेत्यर्थः । वल्गुः सुन्दरो गद्दो
यस्यां तथा ताम् । गिरं वाचम् । व्यक्तं प्रकटम् । विप्रलब्धा प्रतारिता । प्राणितुं
भूषणा ।
 
-
 
कम्' इत्यमरः । भृङ्गारः भाषया 'झारी' इति प्रसिद्धः । 'भृङ्गारः कनकालुका "
इत्यमरः । परिमलं जनमनोहरं गन्धम् । 'विमर्दोत्थे परिमलो गन्धे जनम-
नोहरे' इत्यमरः । असुषीमकामा तीव्रमन्मथा । 'सुषीमः शिशिरो जडः' इत्य-
मरः । विप्रलब्धा वञ्चिता । 'विप्रलब्धस्तु वञ्चितः' इत्यमरः । विप्रलब्धा प्रियं
 
पाठा० - १ 'विस्तीर्णम्'. २ 'मदनोपकरण', ३ 'भृङ्गारः', ४ 'सुधूर-
सुषीमकामा'.