2023-09-05 10:20:48 by Lakshmainarayana achar
This page has been fully proofread twice.
चक्रवाकमिथुनरवमशृणवम् । पुनरुदीचा पाटलिपथेन स्पर्शल-
भ्य [^१]विशालसौधकुड्योदरेण शरक्षेपमिव गत्वा पुनः प्राचा
पिण्डीपाण्डीरखण्डमण्डितोभयपार्श्वेन सैकतपथेन किंचि- [^२]दुत्तरमतिक्रम्य पुनरवाचीं चूतवीथीमगाहिषि । ततश्च गहनतरमुदरोपरचितरत्नवेदिकं माधवीलतामण्डपमीषद्विवृत- [^३]समुद्गकोन्मिषितभासा दीपवर्त्या न्यरूपयम् । प्रविश्य चैकपार्श्वे फुल्लपुष्पनिरन्तरकुरण्टपोतपङ्क्तिभित्तिपरिगतं गर्भगृहम्, अवनिपतितारुणाशोक-
पदचन्द्रिका ।
तथा । 'आहि च दूरे' (५।३।३७ ) इत्याहिप्रत्ययः । अव्ययम् । करुणं दीनम् । चक्रवाकाः कोकाः । 'कोकश्चक्रश्चक्रवाकः' इत्यमरः । रवः शब्दः । उदीचा । उत्तरेणेत्यर्थः । पाटलिपथेन कृष्णवृन्तामार्गेण । 'पाटलिः पाटलामोघा काचस्थाली फलेरुहा ।
कृष्णवृन्ता कुबेराक्षी' इत्यमरः । स्पर्शेन लभ्यं लक्ष्यम् । विशालं महत् । सौधं राजसदनम् । कुड्यं भित्तिः । शरक्षेपमिव बाणक्षेपभूमिपर्यन्तम् । प्राचा पूर्वेण । पिण्डी तगरः । 'पिण्डी स्यात्तगरेऽलाबुखर्जूरीमेदयोरपि' इति विश्वः । अथवा 'रक्ताशोके तु पिण्डी स्यात्' इति वैजयन्ती । भाण्डीरो मल्लिका । 'भाण्डीरो मल्लिकाचयः' इत्यजयः । खण्डं समूहः । तेन मण्डितावुभौ पार्श्वौ यस्येति तेन । उत्तरमुत्तरप्रदेशम् । अवाचीं दक्षिणाम् । ततश्चेति । गहनतरमतिगहनम् । उदरे मध्य उपरचिता कृता रत्नवेदिका यस्मिन्निति । माधवी वासन्ती । ईषदल्पम् । विवृत उद्घाटितः । समुद्गकः संपुटकः । उन्मिषितभासा निःसृतदीप्त्या ।
न्यरूपयमपश्यम् । एकपार्श्व एकस्मिन्भागे । फुल्लपुष्पं विकसितप्रसूनम् । निरन्तरमन्तररहितम् । कुरण्टपोता अल्पपीतकुरबका: । 'कुरण्टस्तु सुपीतकः' इत्य-
भूषणा ।
'आहि च दूरे' (५।३।३७) इत्याहिप्रत्ययः । पिण्डीखण्डं रक्ताशोकखण्डम् । 'रक्ताशोकस्तु पिण्डी स्यात्' इति वैजयन्ती । भाण्डीरः । 'भाण्डीरो मल्लिकाचयः' इत्यजयः । अवाचीं दक्षिणाम् । कुरण्टः पीतकुरण्टकः । 'पीतपुष्पा सहचरी' । 'तत्र शोणे
कुरबकस्तत्र पीते कुरण्टकः' इत्यमरः । दन्तमयस्तालवृन्तः । 'व्यजनं तालवृन्त
लघुदीपिका ।
अभिज्ञानानि लक्षणानि । उत्तराहि दूरभूत उदक्प्रदेशे । 'आहि च दूरे' (५।३।३७ ) इत्याहिप्रत्ययः । अव्ययम् । 'रक्ताशोके तु पिण्डी स्यात्' इति वैजयन्ती । 'भाण्डीरो मल्लिकाचयः' इत्यजयः । अवाचीं दक्षिणाम् । कुरण्टः पीतकुरबकः । कुरण्टस्तु
[^१]G. 'विमलसौधकुट्टिमोदरेण'.
[^२]G. 'अन्तरम्'.
[^३]G. 'समुद्गकसंपुटको'.