This page has not been fully proofread.

१५४
 
दशकुमारचरितम् ।
 
[ तृतीयः
 
चक्रवाक मिथुनरवमशृणवम् । पुनरुदीचा पाटलिपथेन स्पर्शल-
भ्यविशालसौधकुड्योदरेण शरक्षेपमिव गत्वा पुनः प्राचा
पिण्डीपाण्डीरखण्डमण्डितोभयपार्श्वेन सैकतपथेन किंचिदुत्तरमति-
क्रम्य पुनरवाचीं चूतवीथीमगाहिषि । ततञ्च गहनतरमुद्रोपर-
चितरत्नवेदिकं माधवीलतामण्डपमीषद्विवृतसमुद्रकोन्मिषितभासा
दीपवर्त्या न्यरूपयम् । प्रविश्य चैकपार्श्वे फुल्लपुष्पनिरन्तरकु-
रण्टपोतपङ्किभित्तिपरिगतं गर्भगृहम्, अवनिपतितारुणाशोक-
पदचन्द्रिका ।
 

 
तथा । 'आहि च दूरे' (५।३।३७ ) इत्याहिप्रत्ययः । अव्ययम् । करुणं दीनम् ।
चक्रवाकाः कोकाः । 'कोकश्चक्रश्चक्रवाकः' इत्यमरः । रवः शब्दः । उदीचा । उत्तरेणे
त्यर्थः । पाटलिपथेन कृष्णवृन्तामार्गेण । 'पाटलिः पाटलामोघा काचस्थाली फलेरुहा ।
कृष्णवृन्ता कुबेराक्षी' इत्यमरः । स्पर्शेन लभ्यं लक्ष्यम् । विशालं महत् । सौधं
राजसदनम् । कुज्यं भित्तिः । शरक्षेपमिव बाणक्षेपभूमिपर्यन्तम् । प्राचा पूर्वेण ।
पिण्डी तगरः । 'पिण्डी स्यात्तगरेऽलाबुखर्जूरीमेदयोरभि' इति विश्वः । अथवा
'रक्ताशोके तु पिण्डी स्यात्' इति वैजयन्ती । भाण्डीरो मल्लिका । 'भाण्डीरो मल्लि-
काचयः' इत्यजयः । खण्डं समूहः । तेन मण्डितावुभौ पार्श्वो यस्येति तेन ।
उत्तरमुत्तरप्रदेशम् । अवाचीं दक्षिणाम् । ततश्चेति । गहनतरमतिगहनम् ।
उदरे मध्य उपरचिता कृता रत्नवेदिका यस्मिन्निति । माधवी वासन्ती । ईषद -
ल्पम् । विवृत उद्घाटितः । समुद्रकः संपुटकः । उन्मिषितभासा निःसृतदीया ।
न्यरूपयमपश्यम् । एकपार्श्व एकस्मिन्भागे । फुल्लपुष्पं विकसितप्रसूनम् । निर-
न्तरमन्तररहितम् । कुरण्टपोता अल्पपीतकुरबका: । 'कुरण्टस्तु सुपीतकः' इत्य-
भूषणा ।
 
'आहि च दूरे' (५।३।३७) इत्याहिप्रत्ययः । पिण्डीखण्डं रक्ताशोकखण्डम् । 'रक्ताशो-
कस्तु पिण्डी स्यात्' इति वैजयन्ती । भाण्डीरः । 'भाण्डीरो मल्लिकाचयः' इत्यजयः ।
अवाचीं दक्षिणाम् । कुरण्टः पीतकुरण्टकः । 'पीतपुष्पा सहचरी' । 'तत्र शोणे
कुरबकस्तत्र पीते कुरण्टकः' इत्यमरः । दन्तमयस्तालवृन्तः । 'व्यजनं तालवृन्त
लघुदीपिका ।
 
अभिज्ञानानि लक्षणानि । उत्तराहि दूरभूत उदक्प्रदेशे । 'आहि च दूरे' (५।३।३७ )
इत्याहिप्रत्ययः । अव्ययम् । 'रक्ताशोके तु पिण्डी स्यात्' इति वैजयन्ती ।
'भाण्डीरो मल्लिकाचयः' इत्यजयः । अवाचीं दक्षिणाम् । कुरण्टः पीतकुरबकः । कुरण्टस्तु
 
पाठा०- १ 'बिमलसौधकुहिमोदरेण'. २ 'अन्तरम्'. ३ 'समुद्रकसंपुटको'.