2023-09-05 10:20:54 by Lakshmainarayana achar

This page has been fully proofread twice.

[^१]कार्दमिकनिवसनश्च दृढतरपरिकरः खड्गपाणिरुपहृतप्रकृतोपस्करः स्मरन्मातृदत्तान्यभिज्ञानानि राजमन्दिरपरिखामुदम्भसमुपातिष्ठम् । अथोपखातं मातृगृहद्वारे पुष्करिकया प्रथमसंनिधापितां वेणुयष्टिमादाय तया शायितया च परिखाम्, स्थापितया च प्राकारभित्तिमलङ्ग्यम् । अधिरुह्य पक्वे- ष्टकचितेन गोपुरोपरितलाधि [^१]रोहेण सोपानपथेन भुवमवातरम् । अवतीर्णश्च बकुलवीथीमतिक्रम्य चम्पकावलिवर्त्मना मनागिवोपसृत्योत्तराहि करुणं
 
पदचन्द्रिका ।
 
पङ्कः कार्दमिकनिवसनः कर्दमेन रक्तं कार्दमिकम् । 'तेन रक्तं रागात्' इत्यधिकारे 'लाक्षारोचना - ' ( ४।२।२ ) इति सूत्रे 'शकलकर्दमाभ्यामुपसंख्यानम्' ( वा. २६७९ ) इति ठक् । नीलवस्त्रः । दृढतरः परिकरः संनाहो यस्येति सः । 'कक्षाबन्धः परिकरः' इति वैजयन्ती । उपहृतोऽङ्गीकृतः प्रकृतोपस्करो
योग्यसामग्री येनेति स तथा 'साधनं स्यादुपस्करे' इति वैजयन्ती । मातृदत्तानि धात्रीदत्तानि । परिखां प्राचीरसंनिकृष्टखनिम् । उदम्भसमुत्कटजलाम् । उपातिष्ठं समीपमगच्छम् । अथेति । उपखातं खातस्योपेति तथा । प्रथमसंनिधापितां प्रागेव स्थापिताम् । आदाय गृहीत्वा । तया वेणुयष्टिकया । शायितया प्रसारितया । स्थापितयोर्ध्वीकृतया च । प्राकारभित्तिमलङ्घयम् । लङ्घितवा-
नित्यर्थः । अधिरुह्यारोहणं कृत्वा । पक्वेष्टका भर्जितेष्टकास्ताभिश्चितेन कृतेन । 'इष्टकेषीकामालानां -' ( ६।३।६५ ) इति ह्रस्वता । गोपुरोपरिद्वारेण पुरद्वारोपरितलं तत्राधिरोहो यस्येति । सोपानपथेन सोपानमार्गेणावातरम् । बकुलवीथीं
बकुलावलीम् । 'वीथिर्गृहाग्रे पङ्क्तौ' इति वैजयन्ती । चम्पकावलीवर्त्मना चम्पकश्रेणिमार्गेण । मनागिवोपसृत्याल्पमिव गत्वा । उत्तराह्युत्तरस्यां दिशि दूरे
 
भूषणा ।
 
कार्दमिकनिवसनः कर्दमेनाक्तं कार्दमिकम् । 'शकलकर्दमाभ्यामुपसंख्यानम्' (वा.२६७९ ) इति ठक् । परिकरः । 'कक्षाबन्धः परिकरः' इति वैजयन्ती । उपस्करः साधनम् । 'साधनं स्यादुपस्करे' इति वैजयन्ती । अभिज्ञानानि चिह्नानि । उपखातं परिखासमीपे । सामीप्येऽव्ययीभावः । शायितयेत्यादि । तथा च कामन्दकः- 'पृथुसीममहाखातमुच्चप्राकारके पुरः ॥ समाश्रयेत्पुरं शैलसरिन्मरुवनाश्रयम् ॥" इति । पक्वेष्टकचितेन । 'इष्टकेषीकामालानाम्' इति ह्रस्व: । सोपानपथेनारोहणेन । 'आरोहणं स्यात्सोपानम्' इत्यमरः । उत्तराहि दूरत उदक्प्रदेशम् ।
 
लघुदीपिका ।
 
भागुरिः । दुर्विकल्पो दुर्विचारः । कार्दमिकं कर्दमेन रक्तम् । 'कक्षाबन्धः परिकरः' इति वैजयन्ती । उपस्करः साधनम् । 'साधनं स्यादुपस्करे' इति वैजयन्ती ।
 
[^१]G. 'अहं च कार्दमिकनिवसनः',
[^२]G. 'रोहिणा'.