2023-06-28 15:44:19 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः [^१] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
कार्दु
कार्दमिकनिवसनश्च दृढतरपरिकरः खड्पाणिरुपहृतप्रकृतोपस्करः
स्मरन्मातृदत्तान्यभिज्ञानानि राजमन्दिरपरिखामुम्भसमुपाति-
ष्ठम् । अथोपखातं मातृगृहद्वारे पुष्करिकया प्रथमसंनिधापितां
वेणुयष्टिमादाय तया शायितया च परिखाम्, स्थापितया च
प्राकारभित्तिमलङ्ग्यम् । अधिरुह्य पक्केवे- ष्टकचितेन गोपुरोपरितला-
धि [^१]रोहेण सोपानपथेन भुवमवातरम् । अवतीर्णश्च बकुलवीथी-
मतिक्रम्य चम्पकावलिवर्त्मना मनागिवोपसृत्योत्तराहि करुणं
 
१५३
 

 
पदचन्द्रिका ।
 
M
 

 
पङ्कः कार्दमिकनिवसनः कर्दमेन रक्तं कार्दमिकम् । 'तेन रक्तं रागात्' इत्यधि-
कारे 'लाक्षारोचना - ' ( ४२ ) इति सूत्रे 'शकलकर्दमाभ्यामुपसंख्यानम्'
( वा. २६७९ ) इति ठक् । नीलवस्त्रः । दृढतरः परिकरः संनाहो यस्येति
सः । 'कक्षाबन्धः परिकरः' इति वैजयन्ती । उपहृतोऽङ्गीकृतः प्रकृतोपस्करो

योग्यसामग्री येनेति स तथा 'साधनं स्यादुपस्करे' इति वैजयन्ती । मातृदत्तानि
धात्रीदत्तानि । परिखां प्राचीरसंनिकृष्टखनिम् । उदम्भसमुत्कटजलाम् । उपातिष्ठं
समीपमगच्छम् । अथेति । उपखातं खातस्योपेति तथा । प्रथमसंनिधापितां
प्रागेव स्थापिताम् । आदाय गृहीत्वा । तया वेणुयष्टिकया । शायितया
प्रसारितया । स्थापितयोवींर्ध्वीकृतया च । प्राकारभित्तिमलङ्घयम् । लतिङ्घितवा-

नित्यर्थः अधिरुह्यारोहणं कृत्वा । पक्केवेष्टका भर्जितेष्टकास्ताभिश्चितेन कृतेन ।
'इष्टकेषीकामालानां -' ( ६३।६५ ) इति हस्खह्रस्वता । गोपुरोपरिद्वारेण पुरद्वारो-
परितलं तत्राधिरोहो यस्येति । सोपानपथेन सोपानमार्गेणावातरम् । बकुलवीथीं

बकुलावलीम् । 'वीथिर्गृहाने पोचग्रे पङ्क्तौ' इति वैजयन्ती । चम्पकावलीवर्त्मना
चम्पक श्रेणिमार्गेण । मनागिवोपसृत्याल्पमिव गत्वा । उत्तराह्युत्तरस्यां दिशि दूरे
 

 
भूषणा ।
 

 
कार्दमिकनिवसनः कर्दमेनाक्तं कार्दमिकम् । 'शकलकर्दमाभ्यामुपसंख्यानम्' (वा.
२६७९ ) इति ठक् । परिकरः । 'कक्षाबन्धः परिकरः' इति वैजयन्ती । उपस्करः
साधनम् । 'साधनं स्यादुपस्करे' इति वैजयन्ती । अभिज्ञानानि चिह्नानि । उपखातं
परिखासमीपे । सामीप्येऽव्ययीभावः । शायितयेत्यादि । तथा च कामन्द-
कः-- 'पृथुसीममहाखातमुच्चप्राकारके पुरः ॥ समाश्रयेत्पुरं शैलसरिन्मरुवनाश्र-
यम् ॥" इति । पक्केवेष्टकचितेन । 'इष्टकेषीकामालानाम्' इति इस्खःह्रस्व: । सोपानपथे-
बा
नारोहणेन । 'आरोहणं स्यात्सोपानम्' इत्यमरः । उत्तराहि दूरत उदक्प्रदेशम् ।

 
लघुदीपिका ।
 

 
भागुरिः । दुर्विकल्पो दुर्विचारः । कार्दमिकं कर्दमेन रक्तम् । 'कक्षाबन्धः परि-
करः' इति वैजयन्ती । उपस्करः साधनम् । 'साधनं स्यादुपस्करे' इति वैजयन्ती ।
पाठा

 
[^
-१]G. 'अहं च कार्दमिक निवसनः',
[^
]G. 'रोहिणा'.