2023-09-05 10:21:04 by Lakshmainarayana achar

This page has been fully proofread twice.

स्त्वमसि मदंशः । [^१]शंकरजटाभारलालनोचिता सुरसरिदसौ वरवर्णिनी । [^२]सा च कदाचिन्मद्विलोडनासहिष्णुर्मामशपत्– 'एहि मर्त्यत्वम्' इति । [^३]अशप्यत मया च – 'यथेह बहुभोग्या तथा प्राप्यापि मानुष्यकमनेकसाधारणी भव' इति । [^४]अभ्यर्थितश्चानया – 'एकपूर्वा पुनस्त्वामेवोपचर्य यावज्जीवं रमेयम्' इति । तदयमर्थो भव्य एव भवता निराशङ्क्य:' इति । प्रतिबुध्य च प्रीतियुक्तस्तदहरपि प्रियासंकेतव्यतिकरादिस्मरणेनाहमनैषम् ।
अन्येद्युरनन्यथावृत्तिरनङ्गो मय्येवेषुवर्षमवर्षत् । अशुष्यच्च
ज्योतिष्मतः प्रभामयं सरः । प्रासरच्च तिमिरमयः कर्दमः ।
 
पदचन्द्रिका ।
 
सैवासौ कल्पसुन्दरी । वरवर्णिनी । 'उत्तमा वरवर्णिनी' इत्यमरः । सा गङ्गा मद्विलोडनं मत्खेलनं तदसहिष्णुस्तदसहनशीला । मर्त्यत्वं मनुष्यत्वम् । यथा येन प्रकारेण । इह बहुभोग्या गङ्गात्वेन । तथा तेनैव प्रकारेण । मानुष्यकं मनुष्यशरीरम् । अनेकसाधारणी बहुभोग्या भवेति । अभ्यर्थितः प्रार्थितः । अनया गङ्गया ।
एक: पूर्व यस्या इति तथा । त्वां द्वितीयम् । उपचर्य संसेव्य । यावज्जीवं देहपर्यन्तम् । रमेयं क्रीडां करोमि । तदयमिति । अयमर्थः कल्पसुन्दरीभोगरूपः । भव्य एव कुशल एव । निराशङ्क्य: । नाशङ्कनीय इत्यर्थः । प्रतिबुध्य ज्ञात्वा ।
तदहः तद्दिनम् । अनैषमगमयम् ।
अन्येद्युरिति परदिवसे । अनन्यथावृत्तिर्मदेकवृत्तिः । अनङ्गो मदनः। इषुवर्षमिषून्वर्षयित्वेति तथा । णमुल् । अवर्षत् । ववर्षेत्यर्थः । अनुष्यत् । शोषं प्रापेत्यर्थः । ज्योतिष्मतः सूर्यस्य । प्रभामयं दीप्तिरूपं सरः । ताद्रूप्ये मयट् । प्रासरत् । प्रसरति स्मेत्यर्थः । तिमिरमयोऽन्धकारमयः । कर्दमः
 
[^१]G. 'मज्जटा'.
[^२]G. 'तां च कदाचिद्गजाननो जलक्रीडां कुर्वन्नतिव्यगाहत । सा च सपत्नीतनयविहितां विलोडनामसहमाना तमशपत्'.
[^३]G. 'सोऽप्यहेतुकशापप्रदानात्क्रुद्धस्तामशपत्'.
[^४]G. 'ततस्तेन प्रतिशप्ता सा विलक्षेव मामुपसृत्य सगद्गदमगदत् - 'स्वामिन्, अहमनवरतभवच्चरणवरिवस्याविधायिनी
न शापार्हा' इति । तदाकर्ण्य कृपाक्रान्तमनसा मयोक्तम्– 'प्रिये, नास्य शापोऽन्यथा भवितुमर्हति । परं त्वदनुग्रहार्थमहमात्मनोंऽशं द्विधा विभज्य विकटवर्मनृपरूपेण मिथिलापतिप्रहारवर्मात्मजोपहारवर्मात्मना च मर्त्यलोकेऽव-
तरिष्यामि । त्वं च कामरूपाधिपतेः कलिङ्गवर्मनाम्नः कन्या कल्पसुन्दरी नाम भूत्वा ज्यायसा मदंशेन विकटवर्मणा प्रथममल्पीयांसमनेहसं संगता तस्मिन्विकटवर्मणि मन्मूर्तावेव लयमुपगते पुनरुपहारवर्मात्मकं कनीयांसं मदंशमुपलभ्य तेन साकं विविधसुखोपभोगमनुभविष्यसि । तदयमर्ध:'.