2023-06-28 15:25:35 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१५२
 
दशकुमारचरितम् ।
 
[ तृतीयः
 
स्त्वमसि मदंशः । [^१]शंकरजटाभारलालनोचिता सुरसरिदसौ वर-
वर्णिनी । सो[^२]सा च कदाचिन्मद्विलोडनासहिष्णुर्मामशपत्– 'एहि
मर्त्यत्वम्' इति । [^३]अशष्प्यत मया च – 'यथेह बहुभोग्या तथा
प्राप्यापि मानुष्यकमनेकसाधारणी भव' इति । [^४]अभ्यर्थितश्चा-
नया – 'एकपूर्वा पुनस्त्वामेवोपचर्य यावज्जीवं रमेयम्' इति ।
तदयमर्थो भव्य एव भवता निराशयःङ्क्य:' इति । प्रतिबुध्य च
प्रीतियुक्तस्तदहरपि प्रियासंकेतव्यतिकरादिस्मरणेनाहमनैषम् ।
 

अन्येद्युयुरनन्यथावृत्तिरनङ्गो मय्येवेषुवर्षमवर्षत् । अशुष्यच्च

ज्योतिष्मतः प्रभामयं सरः । प्रासरञ्च्च तिमिरमयः कर्दमः ।

 
पदचन्द्रिका ।
 

 
सैवासौ कल्पसुन्दरी । वरवर्णिनी । 'उत्तमा वरवर्णिनी' इत्यमरः । सा गङ्गा
मद्विलोडनं मत्खेलनं तदसहिष्णुस्तदसहनशीला । मर्त्यत्वं मनुष्यत्वम् । यथा येन
प्रकारेण । इह बहुभोग्या गङ्गालेत्वेन । तथा तेनैव प्रकारेण । मानुष्यकं मनुष्यश-
रीरम् । अनेकसाधारणी बहुभोग्या भवेति । अभ्यर्थितः प्रार्थितः । अनया गङ्गया ।

एक: पूर्व यस्या इति तथा । त्वां द्वितीयम् । उपचर्य संसेव्य । यावज्जीवं देहप-
र्यन्तम् । रमेयं क्रीडां करोमि । तद्यमिति । अयमर्थः कल्पसुन्दरीभोगरूपः ।
भव्य एव कुशल एव । निराशयःङ्क्य: । नाशङ्कनीय इत्यर्थः । प्रतिबुध्य ज्ञात्वा ।

तदहः तद्दिनम् । अनैषमगमयम् ।
 
CH
 

अन्येधुद्युरिति परदिवसे । अनन्यथावृत्तिर्मदेकवृत्तिः । अनङ्गो मदनः
इषुवर्षमिषून्वर्षयित्वेति तथा । णमुल् । अवर्षत् । ववर्षेत्यर्थः । अनुष्यत् ।
शोषं प्रापेत्यर्थः । ज्योतिष्मतः सूर्यस्य । प्रभामयं दीप्तिरूपं सरः । ताद्रूप्ये
मयटू
मयट् । प्रासरत् । प्रसरति स्मेत्यर्थः । तिमिरमयोऽन्धकारमयः । कर्दमः
 
पाठा०-

 
[^
]G. 'मज्जटा'.
[^
]G. 'तां च कदाचिद्गजाननो जलक्रीडां कुर्वन्नतिव्य-
गात । सा च सपत्नीतनयविहितां विलोडनामसहमाना तमशपत्'.
[^
]G. 'सो-
ऽप्य हेतुकशापप्रदानात्क्रुद्धस्तामशपत्'.
[^
]G. 'ततस्तेन प्रतिशप्ता सा विलक्षेत्र मामु-
पसृत्य सगद्गदमगदत् - 'स्वामिन्, अहमनवरतभवञ्च्चरणवरिवस्याविधायिनी

न शापार्हांहा' इति । तदाकर्ण्य कृपाक्रान्तमनसा मयोक्तम्– 'प्रिये, नांनास्य
शापोऽन्यथा भवितुमर्हति । परं त्वदनुग्रहार्थमहमात्मनोंऽशं द्विधा विभज्य
विकटवर्मनृपरूपेण मिथिलापतिप्रहारवर्मात्मजोपहारवर्मात्मना च मर्त्यलोकेऽव-

तरिष्यामि । त्वं च कामरूपाधिपतेः कलिङ्गवर्मनाम्नः कन्या कल्पसुन्दरी नाम
भूत्वा ज्यायसा मदंशेन विकटवर्मणा प्रथममल्पीयांसमनेहसं संगता तस्मि:
न्विकटवर्मणि मम्न्मूदेर्तावेव लयमुपगते पुनरुपहारवर्मात्मकं कनीयांसं मदंशमु-
पलभ्य तेन साकं विविधसुखोपभोगमनुभविष्यसि । तदयमर्भःध:'.